इति सा मोचयाचक्रे कर्णौ सख्याः करग्रहात् । |
मदिति । इतीति । युग्मम् । सा कला इति पूर्वोक्तं नलं प्रत्युक्त्वा सख्या भैम्याः करग्रहात् पाणिभ्यां पीडनात्सकाशात्कर्णौ मोचयांचक्रे । अर्थाद्भैम्यैव प्रयोज्यया। तृतीयान्त(पाठ)स्तु स्पष्टार्थः । किंभूतायाः-कर्णपिधानरूपान्मुधायासाद्वृथाप्रयासान्निषेधिनो निवारयितुः पत्युराश्रवतां वचनकारित्वं यान्त्या गच्छन्त्याः। तद्वचनकारिण्या इत्यर्थः। शपथरूपं कलावचनमाकर्ण्य कर्णपिधानप्रयासो व्यर्थ इति निबिडपीडनात्तव पाणिपीडैव भविष्यतीति तत्कर्णौ मुञ्चेति नलवचनाद्भैमी तत्कर्णावमुञ्चदित्यर्थः । इति किम्-हे राजन्, मत्कर्णपिधानवशान्मत्कर्णभूषणानां निबिडपीडनाद्धेतोस्तु पुनः सौकुमार्यातिशयादितः परमपि व्यथिष्यमाणौ पीडां प्राप्स्यन्तौ पाणी यस्यास्तादृशी ते तव प्रिया निषेद्धमुचितेति । कर्णपिधानफलं नास्ति पिधानप्रयासो व्यर्थः प्रत्युतास्याः पाणिपीडा भविष्यतीतीयं त्वया निषेध्येत्यर्थः॥
श्रुतिसंरोधजध्वानसंततिच्छेदतालताम्। |
श्रुतीति ॥ ततः कर्णमोचनानन्तरं ततो विस्तृतो वा तस्याः कलायाः कर्णयोः झटिति शीघ्रं त्यागस्तस्माच्छीघ्रहस्तमोचनाज्जातो यष्टादिस्वनः स श्रुत्योः संरोधान्निबिडपीडनाज्जातो यो ध्वानः शब्दस्तस्य संततिरविच्छिन्नता निरन्तरसमत्पन्नो गुमुगुमारव इति यावत्, तस्य च्छेदे विरतौ तालतां हस्ततालद्वयवाद्यपरिच्छे गीतादिक्रियामानभूतकालतां जगाम । झटितिमुद्रितकर्णमोचनादनुभूयमानष्टादिश कर्णपिधानसमयेऽनुभूयमानगुमुगुमारवविरामज्ञापकोभूदित्यर्थः । एतच्च स्वप्रत्यक्षसिद्धम् ॥
सापसृत्य कियद्दूरं मुमुदे सिष्मिये ततः। |
सेति ॥ सा कला ततोऽनन्तरं तस्माद्भैम्युपवेशनस्थानाद्वा सकाशात्कियत्किंचिद्दूरमपसृत्य गत्वा मुमुदे सिष्मिये । प्रतारणकौशलवशाज्जहास च । तां स्वसखीं श्रुतनलवचनामेत्येदं वक्ष्यमाणं काकुभिरर्थविशेषव्यञ्जकैरुच्चनीचैर्ध्वनिविकारैः कृपणभाषणैर्ययाचे च । अवोचदिति यावत् ॥
अभिधास्ये रहस्यं ते यदश्रावि मयानयोः। |
अभिधास्य इति ॥ हे सखि, मयाऽनयोर्यद्रहस्यमश्रावि, अहं तद्रहस्यं तुभ्यमभिधास्ये, मत्कर्णपिधानानन्तरमनयो रहस्यं त्वया आकर्णितं तत्त्वं मह्यं वर्णय कथय
- ↑ ‘एह्येहि' इति पाठे---संभ्रमे द्विरुक्ति:---इति सुखावबोधा ।