पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
द्वितीयः सर्गः

दिष्टः' इत्यमरः । दमनात् 'सहितपिदमः संज्ञायाम्' इति ल्युः । प्रसेदुषः प्र-सदो लिटः 'भाषायां सदवसश्रुवः' इति क्वसुः । अनन्यसदृक् ‘सर्वनाम्नो वृत्तिमात्रे' इति पुंवद्भावः॥


भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् ।
उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां दधौ ॥१४॥

 भुवनेति ॥ यतो यस्मात्कारणादसौ भीमतनया भुवनत्रये सुभ्रवः सुन्दर्यस्तासां कमनीयतया यो मदः सौन्दर्येण यो गर्वस्तं तनुश्रिया शरीरसौन्दर्येण दमयन्ती ग्लपयन्ती शमयन्ती वोदियायोत्पन्ना । ततस्तस्मात्कारणात् 'दमयन्ती' इत्यभिधां सार्थकं नाम दधे बभार । 'भूसूधूभ्रस्जिभ्यश्छन्दसि' इति क्युनि साधितस्य भुवनशब्दस्य बाहुलकाद्भाषायां प्रयोगः । 'अणावकर्मकात्-' इति कर्त्रभिप्राये क्रियाफले यत्परस्मैपदं विहितं तस्यैव 'न पादमि-' इत्यादिना निषेधादणावकर्मकत्वे च तत्रैव चित्तवत्कर्तृकत्वाभावात्तेन परस्मैपदाप्राप्तेनिषेधाशङ्काया अभावाचाकभिप्राये यथाप्राप्तं परस्मैपदं भवत्येवेति दमयन्तीत्यत्र शता युज्यते ॥

श्रियमेव परं धराधिपाद्गुणसिन्धोरुदितामवेहि ताम् ।
व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः ॥१९॥

 श्रियमिति ॥ हे राजन् , त्वं तां भैमीं श्रियमेव लक्ष्मीमेवावेहि जानीहि । परमयं विशेषः-गुणसिन्धोर्गुणसमुद्राद्धराधिपात्पृथ्वीपतेरुदितामुत्पन्नाम् । लक्ष्मी समुद्रादुत्पन्ना, इयं तु गुणसमुद्राद्राज्ञ इति विशेषः । अप्रसिद्धस्य ज्ञापनं क्रियते न तु प्रसिद्धस्येत्याह –वा प्रसिद्धौ । व्यवधिर्व्यवधानं तस्यां सत्यामपि मृडो महादेवस्तस्य चूडा मौलिः सा निलयः स्थानं यस्याः सा तां विधोश्चन्द्रस्य कलां को न वेद जानाति, अपि तु सर्वोऽपि । ईश्वरस्याप्रत्यक्षत्वेऽपि तन्मौलिस्थितां चन्द्रकलां सर्वोऽपि वेत्ति, तथा व्यवधानेऽपि त्वमपि तां वेत्सीति भावः । इणो लोटि हेरपित्त्वाद्गुणाभावे एजादित्वाभावाद् ‘एत्येधति-' इति वृद्ध्यभावेन 'आद्गुणः' आप्रश्लेषेऽपि 'ओमाङोश्च' इति पररूपप्राप्तेरवेहीत्येव रूपम् ॥


चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि साबिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ २० ॥


 १ 'अत्रानुप्रासव्यतिरेकालंकारौ' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षालंकारः' इति साहित्य- विद्याधरी । ३. 'व्यवधिशब्दस्य स्त्रीत्वे मानाभावेन तस्यामिति व्याख्यानमसंगतम् । ४ 'अत्र रूपकमाक्षेपश्चालंकारौ । आक्षेपलक्षणं रुद्रटेनोक्तम् 'वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य । अन्यत्तथात्वसिद्ध्यै यत्र ब्रूयात्स आक्षेपः' इति साहित्यविद्याधरी । 'यथा हरशिरोगतापि कला चन्द्रकलैव तथा भीमभवनोदिताप्येषा श्रीरेवेति सौन्दर्यातिशयोक्तिः । अत्र श्रीकलयोर्नृपमृडौ वाक्यद्वये बिम्बप्रतिबिम्बभावेन सामान्यधर्मवत्तया निर्दिष्टौ इति दृष्टान्तालंकारः । 'यत्र वाक्यद्वये विम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मः शास्त्रज्ञैः स दृष्टान्तो निगद्यते' इति लक्षणात्' इति जीवातुः ।