पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९००
नैषधायचरिते

  नील[१] दाचिबुकं यत्र मदाक्तेन श्रमाम्बुना ।
  स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् ॥ ९४ ॥

 नीलदिति ॥ तत्रोक्तरूपे पुरुषायिते ललाटकपोललिखितपत्रवल्लीसंब[२] न्धिना मदेन कस्तूर्याक्तेन मिश्रितेन कलुषितेन गच्छता श्रमाम्बुना आचिबुकं हनुभागमभिव्याप्य नीलन्नीलवर्णं भवदुपरिस्थितत्वादधोविलोकयतो मुखस्य कस्तूरीमिलितेन गलता श्रमजलेन चिबुकसंबन्धस्यौचित्यान्नीलं भवत् एवंभूतम् , अधोभागे वर्तमानस्य मम हृदि वर्तमाने मुक्ताहारमध्यमणौ तत्क्षणे विपरीतरताचरणसमये तल्लक्षण उत्सवे वोचितमुक्तरीत्या योग्यम्, अथ च-पुरुषायितक्षणे तादृशस्य श्रमजलस्य कूर्चकान्तिदायित्वेनोचितम् , दृष्टं स्वमास्यं स्मर । 'मदो रेतसि कस्तूर्यो गर्वे हर्षेभदानयोः' इत्यभिधानान्मदशब्द एकदेशलक्षणया मृगमदवाची । नीलद्, आचारक्विबन्ताच्छता । 'नील वर्णे' धातुरिति केचित् ॥

  स्मर तनखमत्रोरौ कस्तेधा(दा)दिति ते मृषा।
  ह्रीदैवतमलुम्पं यद्व्रतं रतपरोक्षणम् ॥ ९५ ॥

 स्मरेति ॥ अहं अत्रास्मिंस्ते तवोरौ को नखमधा(दा)द्दत्तवानिति मृषा असत्यभाषी सन् ह्रीरेव दैवतं यस्य तत्, अत एव-रतस्य परोक्षणं परोक्षकरणं ब्रह्मचर्यरूपं सुरतप्रतिबन्धकं व्रतं नियमं यदलुम्पं निवर्तितवान्, तत्स्मर । परपुरुषसंबन्धशङ्कोत्पादनार्थं मृषाभाषणेन रसान्तरमुत्पाद्य लज्जाकृतं सुरतप्रतिबन्धकमनुद्योगं यन्निवर्तितवांस्तत्स्मरेत्यर्थः । व्रतं सदैवतं भवतीति ह्रीदैवतमित्युक्तम् ॥

  वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति ।
  देहि मह्यमुदस्येति मद्गिरा व्रीडितासि यत् ॥ ९६ ॥

 वनेति ॥ त्वम् इति मद्गिरा यद्व्रीडितासि तत्स्मर । इति किम्-हे भैमि, त्वं व[३]

  इति तस्या रहस्यानि प्रिये शंसति सान्तरा।
  पाणिभ्यां पिदधे सख्याः श्रवसी ह्रीवशीकृता ॥ ९७ ॥

 इतीति ॥ सा भैमी प्रिये इति पूर्वोक्तप्रकारेण तस्या भैम्या रहस्यानि एकान्तरतवृत्तानि शंसति सति ह्रीवशीकृता लज्जिता सती अन्तरा मध्य एवासमाप्त एव वचने


  1. 'नीलज्जातश्मश्रु यत्रेति पाठो दुर्योज्यत्वाच्चिन्त्यः' इति सुखावबोधा।
  2. 'वनकेलौ आरामविहारसमये' इति 'व्रीडिता' इत्यतः प्राग्योजनं साधिष्ठम् ।
  3. अथ च-3-उत्क्षिप्य (उच्छल्य) देहीति याचितेन नगोपमस्य तस्योर्ध्वीभावेन पुरुषायितसुरतस्यापि सूचितत्वाद्यल्लज्जितासीति' इति सुखावबोधायामधिकम् ।