पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९३
विंशः सर्गः

संबन्धि मया क्रियमाणमभ्यर्थनं तस्माज्जातया क्रुधा कोपेन हेतुना मामेवं लीलाकमलाघातप्रकारेण यत्ताडयति, यद्वा यच्च भ्रुवा कटाक्षेण तर्जयति भीषयते तत्त्वया दृष्टं दृष्टं त्वं पश्य पश्येत्यर्थः । त्वयि परपुरुषबुद्धिं कृत्वा तत्र मां कथं प्रवर्तयसीति मां ताडयति, भ्रूक्षेपेण चेतः परं मा वादीरिति तर्जयति च, तत्त्वं पश्येति भावः । दृष्टं दृष्टं, संभ्रमे द्विरुक्तिः॥

  वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः ।
  शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥६८॥

 वदतीति ॥ हे राजन् , इयमिति वदति । इति किम्-हे कले, यदर्थमर्थनां त्वं करोषि एष नैषधः त्वया केन चिह्नेनाचिह्नि निर्धारितः । तर्हि कः-अयं शक्रः स्वयं वरणकाल इव मायां नलरूपां कृत्वा स्वयमायातवानित्यहं शङ्के । त्वदर्थमर्थनां कुर्वत्या मम कर्णे इति वदति । चिह्नवान्कृत इति, णिचि मतुब्लुक् ॥

 भैमी त्वदिन्द्रत्व इदं प्रमाणमाह-

  स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।
  नयतीयं त्वदिन्द्रवे दिवश्वागमनं च ते ॥ ६९ ॥

 स्वर्णदीति ॥ इयं स्वर्णद्यां मन्दाकिन्यां स्वर्णपद्मिन्याः पद्मस्यात्मने दानं, दिवः स्वर्गात्ते भूमिं प्रति आगमनं च, तवेन्द्रत्वे निदानतां प्रथमकारणतां नयति प्रापयति । नहि मनुष्यस्य स्वर्णदीस्वर्णपद्मिनीसुवर्णकमलानयने स्वर्गादागमने च, सामर्थ्यं दृष्टम् । तस्मान्नलरूपं धृत्वा पूर्ववदिन्द्र एवायमागत इति एतदर्थं प्रत्यर्थना त्वया कर्तुमयुक्तेतीयं मत्कर्णे कथयतीति भावः । स्वर्णदीति, 'पूर्वपदात्संज्ञायामगः' इति णत्वम् ॥

  भाषते नैषधच्छायामायामायि मया हरेः।
  आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥ ७० ॥

 भाषते इति ॥ हरेरिन्द्रस्य नैषधस्य छायायाः कान्तेर्माया कापट्यं मया स्वयंवरकालेऽमायि ज्ञातेतीयं मां भाषते । स्वयंवरकाले तव परस्त्रीत्वाभावान्नलरूपं धृतम्, इदानीं तु परस्त्रीत्वभियैवं न करिष्यतीति मया प्रयुक्ता सतीयं भैमी अहल्यायां गौतमपत्न्यां तस्येन्द्रस्याकर्णितो व्यभिचारलक्षणो दुष्टो नयो यया, एवंविधाहमिति च ब्रूते । परस्त्रीत्वभीतिरपि तस्य नास्ति, तस्मादिन्द्र एवायमिति त्वयाऽभ्यर्थना न कार्येति मां प्रति भाषत इति भावः । नैषधस्येव छाया यस्यामिति मायाविशेषणत्वेन पृथग्वा ॥

  संभावयति वैदर्भी दर्भाग्राभमतिस्तव ।
  जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥ ७१ ॥

 समिति ॥ कुशाग्राभा मतिर्यस्याः सा वैदर्भी दम्भोलिः सार्वभौमत्वसूचकं वज्रं त-