पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९२
नैषधीयचरिते

'सत्यम्' इनि पाठे-अभिधापये सत्यं जानीहीत्यर्थः। 'आश्वसभ्यम्' इति पाठे-इमं भूपमेव तवेदमसभ्यं सभायां जनसमक्षं वक्तुमनर्हं तद्रहोवृत्तमाश्विदानीमेवाभिधापये तिष्ठ तिष्ठेत्यर्थः। भूपम्, 'अकथितं च' इति कर्मत्वं ब्रू इत्यर्थग्रहणात्। अभिधापये, अभिपूर्वाद्भाषणार्थाद्दधातेर्हेतुमण्णिचि "णिचश्च' इति तङ् ॥

  स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् ।
  अगोपि सोपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ॥ ६४ ॥

 स्मरेति ॥ स्मरशास्त्रं वात्स्यायनादिप्रणीतमधीयाना पठिती(ठन्ती) त्वं तत्र प्रतिपादितं यं दाम्पत्यव्यत्ययं विपरीतसंभोगं मयैव शिक्षितासि स दाम्पत्यव्यत्ययस्त्वया कृत्वापि निष्पाद्यापि मम पुरस्तात्किं किमर्थमगोपि गोपितः कथयेति प्रश्नः । नितरां धार्ष्ट्यमवलम्ब्य मया शिक्षितं विपरीतसुरतं कृत्वापि ममैव पुरस्तादकृतमेव कथयसीति नितरां वञ्चनचतुरासीति भावः। स्मरशास्त्रं, 'न लोका-' इति षष्ठीनिषेधः । दम्पत्योर्भावः संभोग इति यावत् । 'पत्यन्तपुरोहितादिभ्यो यकू' इति यक् ॥

  मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती।
  वादं वादं मुहुश्चक्रे हुंहुमित्यन्तरान्तरा ॥६५॥

 मौनिन्यामिति ॥ सा कला तस्यां भैम्यां मौनिन्यामवदन्त्यामेव सत्यां तदुक्तीर्भैमीवचनानि शृण्वतीव भैम्यामवदन्त्यामपि भैमी मां प्रति किमपि वदति अहं शृणोमीति नलं प्रति प्रकटयन्ती वादं वादं भैमीवचनप्रतिवचनव्याजेन स्वयमेव किंचिदुक्त्वोक्त्वा अन्तरान्तरा मध्येमध्ये हुंहुमिति शब्दं चक्रे । 'वदत्यचिह्नि-' इत्यादेर्वक्ष्यमाणस्य सत्यत्वबुद्धिजननार्थं पूर्वरङ्गमलीकमेव श्रवणोत्तरदानरीतिप्रकटनमकरोदिति भावः । वादं वादम्, आभीक्ष्ण्ये णमुलि, आभीक्ष्ण्य एव द्विर्वचनम् ॥

  अथासावभिसृत्यास्या रतिप्रागल्भ्यशंसिनी।
  सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम् ॥ ६६ ॥

 अथेति ॥ अथ श्रवणप्रकारप्रकटनानन्तरमसौ कला नृपमभिसृत्य भैम्याः सकाशान्नलं प्रति गत्वा वक्ष्यमाणमवोचत् । किंभूता-अस्या भैम्या रतिप्रागल्भ्यं शंसति वर्णयति तच्छीला । विपरीतसुरतमपि करोषि, सांप्रतं नितरां धृष्टा जातासीति भैमीकर्णे प्रेमभाषणं कुर्वाणा । अत एव-किं कृत्वा-सख्या भैम्या लीलाम्बुजेनाघातमनुभूय प्राप्य । रतिप्रागल्भ्यं नलेन शंसयति तच्छीलेति वा । शंसिनी, केवलाद्धेतुमण्ण्यन्ताद्वा शंसेस्ताच्छील्ये णिनिः॥

  दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनक्रुधा ।
  यत्ताडयति मामेवं यद्वा तर्जयति भ्रुवा ॥ ६७ ॥

 दृष्टमिति ॥ हे महाराज सार्वभौम, इयं नलाय संभोगं वितरेति त्वदर्थं त्वत्संभोग-