पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८९
विंशः सर्गः।

क्षन्तुं मनु दिनस्यास्य वयस्येयं व्यवस्यतात् ।
निशीव निशिधात्वर्थं यदाचरति नात्र नः॥ ५४॥

क्षन्तुमिति ॥ हे कले, इयं तव वयस्याऽस्य वर्तमानस्य दिनस्य मन्तुमपराधं क्षन्तुं सोढुं व्यवस्यतात्प्रथयतात् । कोपराधो दिनस्येत्यत आह-यद्यस्मादियं भैमी निशीव रात्राविव नोऽस्माकं 'निशि[१] चुम्बने' इति पठितस्य धातोरर्थमत्र दिने नाचरति । रात्रौ यथा निःशकं मां चुम्बति तथा भवतीभ्यो लज्जया दिने नेति दिनस्यैवापराधः, तस्मात्तस्यापराधं क्षमस्वेति प्रार्थ्यत इत्यर्थः। व्यवस्थताम्' इति पाठे आ[२]त्मनेपदं चिन्त्यम्॥

दिनेनास्या मुखस्येन्दुः सखा यदि तिरस्कृतः ।
तत्कृता शतपत्राणां तन्मित्राणामपि श्रियः॥ ५५॥

 दिनेनेति ॥ दिनेनास्या मुखस्य सखा इन्दुर्यदि तिरस्कृतः निष्प्रभीकृत्य पराभूतः । एनमपराधं चेन्मन्येत तत्तर्हि तस्य भैमीमुखस्य सादृश्यान्मित्रभूतानां बहूनां शतपत्राणां कमलानां श्रियो विकासलक्ष्म्यः, अथच-संपदोऽपि, कृताः । अनेकापकारकारिण्येकस्मिन्पराभूते यदि बहूनां क्षेमं भवति तदा महानुपकार एवेति । त्वन्मुखमित्रभूतानां कमलानां प्रकाशकरत्वाद्दिनेनोपकार एव कृतः, नापकारः। तस्मादेतस्यापराधो नास्तीति मन्मुखचुम्बनं दिनेपि कुर्विति भावः । “एकस्मिन्धर्षिते पापे बहूनामपकारिणि । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः॥' इत्याद्युक्तेः। कृत्ता' इति पाठे-दिनस्य मित्रभूतानां तत्संबन्धात्सलक्ष्मीकानां( णां) कमलानाम्, अथच-शतसंख्याकानि बहूनि पत्राणि वाहनानि येषां मित्राणां श्रियोऽपि तेन चन्द्रेण कृत्ताश्छिन्नाः रात्री संकोचकरणात् । दिनेन तु त्वन्मुखमित्रं चन्द्रो धर्षितः, चन्द्रेण तु दिनमित्राणि बहूनि कमलानि धर्षितानीति चन्द्रेण स्वयं वैरनिर्यातनं कृतमेवेति दिनस्यापराधोऽनया न गणनीय इत्यर्थः । त्वन्मुखमित्राणां कमलानां श्रियोऽपि छिन्नाः, अपि तु-न । किंत्वभिवृद्धिमेव प्रापिताः । तस्मात्पूर्ववदेवापराधो नास्तीति काकुर्वा । त्वन्मुखमित्रं चन्द्रो यदि तिरस्कृतः, तर्हि दिनमित्राणां कमलानामपि श्रियस्तेन त्वन्मुखेन छिन्नाः स्वकान्त्या तेषां निष्प्र(ःशो)भीकरणात् । वैरं निर्यातितमेवेति दिनस्यापराधो न गणनीय इति भाव इति वा॥

लज्जितानि जितान्येव मयि क्रीडितयाऽनया ।
प्रत्यावृतानि तत्तानि पृच्छ संप्रति कं प्रति ॥ ५६ ॥


  1. 'आभरणकारस्तु तालव्यन्तोऽयमिति बभ्राम' इति सिद्धान्तकौमुदी । अतएव भाष्ये 'निसेः (षत्वस्य) प्रतिषेधो वाच्यः । निस्से निस्स्व' इत्युक्तम् । 'तालव्यान्तस्याप्यङ्गीकारे न बाधकमित्यन्ये' इति शब्दरत्नम् । प्राचीनलिखितप्रकाशटीकापुस्तकयोस्तु 'णिसि-' इत्येव पाठो दृश्यते ।
  2. 'इयं वयस्याऽस्य दिनस्य मन्तुं क्षन्तुं त्वया व्यवस्यतां व्यवसायं प्रार्थ्यतामिति कर्मण्यात्मनेपदमिति केचित् । तदपीत्वप्राप्तौ व्यवसीयतामिति प्राप्तरुपेक्ष्यम्' इति सुखावबोधा।