पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८८
नैषधीयचरिते

र्विघ्नं स्तनदर्शनं भवेत् , दिवा तु नखक्षतादिसंभोगचिह्नदर्शनभिया वस्त्रावृतत्वात्कथं नाम चूचुकाग्रस्यापि दर्शनं स्यात् , न कथंचिदित्यर्थः। दोषया रात्र्या त्यक्तौ रात्रेर्गतत्वाद्दिनप्रकाशसंबद्धौ, अत एव ह्रिया वस्त्रावृतत्वाद्दिवा वैमुख्यमेव तयोर्युक्तमित्यर्थ इति वा । बहिःस्थितं त्वां प्रति वैमुख्यासंभवाद्धृदयस्थितस्य तव स्वमुखं कथं दर्शयतामिति । ह्रिया भैम्याः पराङ्मुखत्वाद्वा कुचौ स्वमुखं नलस्य न दर्शयतः । स्वाश्रयभूतस्य भैमीहृदयस्य वा कुचौ स्वमुखं न दर्शयतः। नहि कुचौ हृदयस्य संमुखौ भवतः । अन्योपि दोषोज्झितो निरपराधो लब्धप्रतिष्ठो धनादिग्रहणेन पीडितो नासादिकर्तनेन कृतव्रणो लज्जितः कस्याप्यग्रे मुखं न दर्शयति । व्रणितौ, तारकादित्वादितच् ॥

इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ।
ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम् ॥ ५० ॥

इतीति ॥ कलया पीयूषवर्षिभिरमृतं क्षरद्भिरतिमधुरैः सूक्तैः शोभनवक्रोक्त्यादिरूपैर्वाक्यैः सिक्तः संजातगाढप्रेमभरोऽसौ नलः उन्नमितेति पाणिना चिबुकं धृत्वोर्ध्वीकृतमाननं यस्यास्तां प्रियां भैमीं हे भैमि, इदं कलावचनमीदृगेवमेवेति सत्यमिति पप्रच्छ । उन्नमितेति 'ज्वलह्वल-' इति मित्त्वपक्षे ह्रस्वः ॥

बभौ च प्रेयसीवक्रं पत्युरुन्नमयन्करः।
चिरेण लब्धसंधानमरविन्दमिवेन्दुना ॥ ५१ ॥

बभाविति ॥ पत्युः करोऽरविन्दमिव बभौ च । किंभूतः-प्रेयसीवक्रमुन्नमयन् । किंभूतमरविन्दम्-चिरेण कालेन वैरं विस्मृत्य निवृत्तवैरतया इन्दुना सह लब्धं संधानं येन । अभूतोपमा । चन्द्रकमलयोः सदा वैरम् ॥

ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् ।
दमयन्ती मुदे पत्युरुञ्चैरप्यभवत्तदा ॥ ५२ ॥

ह्रीणेति ॥ नलोक्तेः कलोक्तवक्रोक्तिप्रत्युक्तिपरिहासेन ह्रीणा च स्मयमाना च, अत एव लज्जावशेन स्मितं च नलेन द्रष्टव्यमिति बुद्ध्याऽत्युचैर्नितरामुन्नमितमपि मुखं पुनर्नमयन्ती दमयन्ती सदा तस्मिन्मुखोन्नमनसमये पत्युर्मुदेऽभवत् । अत्युच्चैर्मुदेऽभूदिति वा । तादृशीं तां दृष्ट्वा हृष्टोऽभूदिति भावः ॥

भूयोपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् ।
परिहासविलासाय स्पृहयालुः सहप्रियः ॥ ५३॥

 भूय इति ॥ सह प्रियया वर्तमानो भूयोपि पुनरपि वक्रोक्त्यादिपरिहासविलासाय स्पृहयालुरभिलाषुको भूपतिस्तस्याः सखीं कलां सस्मितं यथा तथा आह स्म । विलासाय 'स्पृहेरीप्सितः' इति संप्रदानत्वम् । सहप्रियः, 'वोपसर्जनस्य' इति पाक्षिकत्वात्सादेशाभावः॥