पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरितright=


न मुञ्चतीत्यर्थः । त्वदर्थमेव कामं धारयति, न तु कामार्थ त्वामिति भावः । त्वयेति पाठे-त्वया हेतुना यार्थिता तयेत्यर्थः ॥

 'पूर्णया-' इत्यादेरुत्तरमाह-

त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् ।
शङ्कया पङ्कजाक्षी वां दृगंशेन स्पृशत्यसौ ॥४४॥

 त्वयीति ॥ पङ्कजाक्षी असौ त्वयि न्यस्तचित्तस्य दुराकर्षत्वस्याप्रत्यावर्तमानत्वस्य दर्शनाद्धेतोः शङ्कया चित्तवत् पुनरप्रत्यावृत्तिभिया त्वां दृगंशेन नेत्रप्रान्तेन स्पृशति पश्यति, नतु पूर्णया द्विलोचन्या । त्वयि न्यस्तस्यति अनुरागातिशयः, पङ्कजाक्षीति च दृशोरतिसौन्दर्यं सूचितम् । सुन्दरस्य वस्तुनः पुनरप्रत्यावृत्तौ महद्भयमिति च सूचितम् । शङ्कयेवेति प्रतीयमानोत्प्रेक्षा ॥

 'नालोकते-'इत्यादेरुत्तरमाह-

विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषोः ।
स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः ॥ ४५ ॥

 विलोकनादिति ॥ विलोकनात्प्रभृति अनया त्वं यदा दृष्टोसि तदारभ्य त्वमस्याश्चक्षुषोः संलग्न एवासि । त्वामेवेयं सदा पश्यति नान्यत्किंचिदपीत्यस्यास्त्वयि महती नेत्रप्रीतिरित्यर्थः । एवं सति मद्वचने इयं मिथ्या वदतीति शङ्काऽविश्वासश्चेत् , तर्हि एत. दीयचक्षुषोर्मध्येऽहं वर्ते नवेति निश्चेतुं स्वेनात्मनैवालोकय । एतदीयचक्षुषी पश्य, अहमत्र वर्त इत्यनुभवेनैव निर्धारयिष्यसीत्यर्थः । स्वेनालोकने हेतुमाह-परवाचि को नाम प्रत्ययो विश्वासः, अपित्वनुभवयोग्येऽर्थे परवचनमप्रमाणमेवेत्यर्थः । दृश्यकनीनिकायां संमुखं द्रष्टुरवश्यं प्रतिबिम्बो भवत्येवेति छलोक्तिः। अथ च -नेत्रलग्नत्वादेव नेत्रकज्जलवदीक्षितुमसामर्थ्यान्नालोकत इति त्वया सत्यमेवोक्तमित्यर्थः । अथचेत् शङ्का तर्हि स्वनेत्रगतमेव गोलकादि स्वयमालोकय तदा ज्ञास्यसि परवाचि कः प्रत्ययः । विलोकनात् , 'आरभ्यार्थयोगेपि' इति पञ्चमी ॥

 रागं दर्शयते-' इत्यादेरुत्तरमाह-

परीरम्भेऽनयारभ्य कुचकुङ्कुमसंक्रमम् ।
त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् ॥ ४६ ॥

 परीति ॥ अनया परीरम्भे गाढालिङ्गने क्रियमाणे तव हृदये कुचकुङ्कुमस्य संक्रममारभ्योपक्रम्य तव्द्याजेन मे हृदयस्य मनसः । अथ च-वक्षसः। त्वय्येवमनेन प्रकारेण रागः। अथ च-रक्तिमा । एतादृशी वागुदितैव । साक्षाद्यद्यपि नोक्तं तथाप्युक्तप्रायमेवेत्यर्थः । गाढालिङ्गनं ह्यनुरागं विना न घटत इति गाढालिङ्गने कुचकुङ्कुमाङ्गरागलेपनव्याजेन मम त्वय्येवमनुरागो वर्तत इत्यन्तगतोऽनुरागभर एव प्रकटीकृत इति भावः। 'हृदयस्यैव' इति पाठे त्वय्येवेति योजना । त्वयि मे हृदयस्यैव रागो नतु वाचिकः, स-