पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८५
विंशः सर्गः।


स्यास्तादृशी तुल्यरूपा न स्यात् , किंतु सुन्दरतरवदनैव योग्या स्यात् । तथा च त्वन्मुखवदेवैतस्या अपि मुखं सुन्दरमिति जानीहीति भावः ॥

 'आह स्म-' इत्यादेः श्लोकत्रयेणोत्तरमाह-

मनोभूरस्ति चित्तेऽस्याः किंतु देव त्वमेव सः ।
त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् ॥ ४१ ॥

 मनोभूरिति ॥ अस्याश्चित्ते मनोभूः कामोऽस्ति सत्यम् । हे देव, किंतु त्वमेव स मनोभूः । नतु त्वदन्यः कश्चिदित्यर्थः । कुतः-यस्मात्कारणात् सख्या भैम्या मनो दिवानिशं तवावस्थितेर्भूः स्थानम् । कामपरत्वे मनसि भवति, नलपरत्वे मनो भूः स्थानं यस्य । अस्याश्चेतसि सुन्दरतरो मनोभूस्त्वमेव वर्तसे नान्य इति ॥

 यद्यहमेव कामस्तर्हि मद्विषयेऽस्याः कामो नास्तीति नलीयावान्तरच्छलाशङ्कानिराकरणव्याजेन प्रकारान्तरेण तस्यैवोत्तरमाह-

सतस्तेथ सखीचिते प्रतिच्छाया स मन्मथः ।
त्वयास्य समरूपत्वमतनोरन्यथा कथम् ॥ ४२ ॥

 सत इति ॥ अथाथवा स मन्मथो (थः) सख्या भैम्याश्चित्ते सतो वर्तमानस्य तव प्रतिच्छाया प्रतिबिम्ब एव, नतु स्वतन्त्रो विम्बरूपः । प्रतिबिम्बश्च स्वच्छ एव मुकुरादौ भवतीति भैमीमनसः स्वच्छतरत्वं द्योतितम् । कुत एतदित्याशङ्क्यान्यथानुपपत्तिं प्रमाणयति-अन्यथा यदि प्रतिच्छाया न भवेत् , तर्ह्यतनोरशरीरस्यास्य कामस्य त्वया सह समरूपत्वं कथं स्यात्, अपितु न कथंचित् । ऐलनासत्यादीनां सशरीरत्वात्त्वया सह सारूप्यं (न) युज्यते । अयं त्वतनुः तस्मादस्य प्रतिबिम्बत्व एव त्वत्सारूप्यं युज्यते । प्रतिबिम्बमेव ह्यशरीरमपि तुल्यरूपं भवति । तस्मात्प्रतिबिम्बस्य बिम्बं विना स्थातुमशक्तत्वान्मनसि तव धारणात्सारूप्यम् । त्वत्प्रतिबिम्बभूतं त्वदेकविषयं कामं नान्तरीयकतया धारयतीत्यर्थः । बिम्बत्वेऽनङ्गत्वेन सारूप्यानुपपत्तेः प्रतिबिम्ब एवायमित्यनुमानम् ॥

कः स्मरः कस्त्वमत्रेति संदेहे शोभयोभयोः।
त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम् ॥ ४३ ॥

 क इति ॥ अथवोभयोर्द्वयोर्भवतोस्तुल्यया शोभया कृत्वात्र द्वयोर्मध्ये स्मरः कः, त्वं नलश्च कः, इति सादृश्यात्संदेहे सति अत्रास्मिन्संदेहे सति वा त्वय्येव विषयेऽर्थितया साभिलाषतया सेयं भैमी युवां द्वावपि स्मरनलौ चित्ते धत्ते । सर्वो ह्यतिसदृशयोः काचमण्यादिपदार्थयोः संदेहे एकतरपरित्यागे मणिरेव परित्यक्तः स्यात्, तन्माभूदिति मण्यर्थित्वेनैव यावन्निर्णयं काचमपि न मुञ्चति, तथा तुल्यशोभत्वेन निश्चेतुमशक्यत्वात्स्मरपरित्यागे भवानेव परित्यक्तः स्यात् तन्मा भूदिति त्वय्येव साभिलाषतया द्वावपि