पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८३
विंशः सर्गः।

अथ च-ईगतिकोमलमेतदीयं हृदयं ज्ञात्वा प्राप्य वा मूढताममुञ्चतोरालिङ्गनादिना मयि विषये सकृपयोः, अत एव युक्ताचारयोर्विशिष्टमत्युन्नतं मुखमग्रं ययोस्तादृक्त्वं प्रसन्नमुखत्वं च जानीम एवेति । इत्यादि ज्ञातव्यम् ॥

इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् ।
दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे ॥ ३७॥

 इतीति ॥ अस्मिन्नले इत्युक्तप्रकारेण सोल्लुण्ठं वक्रोत्यादिसहितं यथातथा तां भैमी कलां वाऽभिधायोक्त्वा मुद्रितकण्ठे मौनिनि सति दमयन्तीमुखादधीतं स्मितं यया नलवक्रोक्तिमाकर्ण्य हसद्भैमीमुखं दृष्ट्वा संजातहासया, भैमीमुखेनाधीतं स्मितं यस्याः सकाशात् । नलीयसोत्प्रासवचनात्स्वयं हसन्तीं भैमीमपि हासयति स्मेत्यर्थः । तादृश्या वा तया कलया असौ नलो जगेऽभाणि । 'सोल्लुण्ठनं तु सोत्प्रासम्' इत्यमरः। उल्लुण्ठनमुल्लुण्ठः भावे घञ् । तेन सह यथा स्यादिति क्रियाविशेषणम् । मुखाधीतेति 'पञ्चमी' इति योगविभागात्समासः। (स्मितया)ऽस्मै तया' इति पाठे-'क्रियया यमभिप्रैति-' इति संप्रदानत्वम् ॥

 'कस्सादस्माकम्-' इत्यस्योत्तरमाह-

भावितेयं त्वयासाधु नवरागा खलु त्वयि ।
चिरंतनानुरागार्हं वर्तते नः सखीः प्रति ॥ ३८ ॥

 भावितेति ॥ हे राजन् , त्वयेयं साधु सम्यग्भाविता तर्किता । या त्वयि विषये खलु निश्चितं नवरागा नवप्रीतिर्वर्तते । नवोढत्वाधार्ष्टयेन सलज्जा वर्तत इत्यर्थः । त्वयि नवरागा सती नः सखीः प्रति चिरंतनो योऽनुरागस्तस्यार्हं योग्यं यथा तथा वर्तते । बहुकालीनस्नेहवशान्निःशकं वर्तत इत्यर्थः । त्वयि नवरागा सती नः प्रति चिरंतनानुरागार्हमतिदृढप्रीति (यथा तथा) वर्तते, नतु त्वयीत्येकवाक्यता वा । तस्माल्लज्जावशादधार्ष्ट्यान्मय्युदासीना, भवतीषु तु प्रीतिमतीति तव बुद्धिरुत्पन्नेत्यर्थः । अथ च -त्वयेयं साधु तर्किता । साध्विति काक्वा विपरीतलक्षणया वा साध्वेव विपरीतमेव तर्कितेत्यर्थः । यद्वाऽकारप्रश्लेषेणासाधु तर्किता । खलु यस्मात्त्वयीयं नूतनानुरागाऽतिदृढप्रीतिर्वर्तते, अस्मासु तु जीर्णानुरागयोग्यं यथा तथाऽतिशिथिलप्रीतिर्वर्तते, नतु त्वयि । 'अतिपरिचयादवज्ञा' इति न्यायादित्यर्थः । यतो मह्यं दयते तुभ्यं न दयते इति वदता त्वया सत्यमुक्तमित्यर्थः । यद्वा-सम्यग्भाविता भावं प्रापिता । द्रावितेत्यर्थः । यस्मात्वयि नवरागत्वादृढप्रीतिः सती अस्मान्प्रति पुराणप्रीतिसदृशमतिशिथिलप्रीति (यथा तथा) वर्तते, नतु त्वयि । तथा सम्यग्भाविता यथा त्वय्येव दृढप्रीतिः सत्यसान्सर्वथा न गणयत्यपीत्यर्थः । तस्मादस्मान्वृथैवोपहससीति भावः । इति सोल्लुण्ठम् ॥

 'अन्वग्राहि-' इत्यादेरुत्तरमाह-

स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी।
कथं संभुज्यते बाला कथमस्मासु भाषताम् ॥ ३९ ॥