पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
द्वितीयः सर्गः

तदप्रियं नुनुत्सुर्निराकर्तुमिच्छुरस्मि । तत्र दृष्टान्तमाह-अंशुमान्सूर्यस्तरोर्वक्षस्य आतपेन कृतं संज्वरं पीडाममृतं जलमभिवृष्याभितो वर्षित्वा यथा नुदतीत्यर्थः । अनेन दृष्टान्तेनातिशयितं प्रियं करिष्यामीति सूच्यते ॥

उपनम्रमयाचितं हितं प्रतिहर्तुं न तवापि सांप्रतम् ।
करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः॥१२॥

 उपेति ॥ अयाचितमप्रार्थितमुपनम्रमुपस्थितं हितं प्रियं परिहर्तुं त्यक्तुं तवापि सार्वभौमस्यापि न सांप्रतं न युक्तम् । हि यतः करकल्पम् ईषदसमाप्तः करः जनान्तरं अन्यो जनो मल्लक्षणः, करकल्पं जनान्तरं यस्यैवंविधाच्छुचितो निर्मलाच्छोभनाद्विधेर्दैवात्स प्रतिग्रहस्त्वया प्रापि प्राप्तः। सर्वं हि शुभाशुभं दैवात्प्राप्यते । यदैववशाद्भवति तत्केनापि निराकर्तुं न शक्यते । करेण हि दीयते । यद्वा विधेर्दैवस्य हस्तभूताज्जनान्तरादेतादृशः प्रतिग्रहो राज्ञो दोषाय न । 'अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः'इति याज्ञवल्क्यः॥ स्वगर्वं परिहरति-

पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ।
इति वेद्मि न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥ १३ ॥

 पतगेनेति ॥ पतगेन पक्षिणा जगत्पतेर्भुवनाधिपतेस्तव नलस्योपकृत्यै उपकाराय प्रभूयते किं समर्थेन भूयतेऽपि तु नेति यद्यपि वेद्मि जानामि तदपि तथापि प्रत्युपकर्तुं प्रत्युपकारार्थं अर्तयः कथमस्योपकरोमीत्युत्कण्ठादरः, पीडा वा मां ननु नैव त्यजन्ति । असमर्थमपि प्रेरयन्तीत्यर्थः ॥ उपकर्तुं शक्यते न वेति विचारो मास्तु, किं तूपकर्तुः प्रत्युपकर्तव्यमेवेति विधिरस्तीत्याह-

अचिरादुपकर्तुराचरेदथवात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा न विशेष विदुषामिह ग्रहः ॥१४॥

 अचिरादिति ॥ अथवा पक्षान्तरे। यः पुरुषः कश्चनोपकर्तुरुपकारकस्यात्मौपयिकीमात्मोपायादागताम् । अत्मोपायसाध्यामित्यर्थः । एवंभूतामुपक्रियामुपकारमचिराज्झटिति आचरेत्कुर्यात् । जीवनस्य सत्वरत्वादचिरादित्युक्तम् । इत्थं विधौ सति सा उपक्रिया पृथुमहती अथ अथवा अणुः अल्पा वास्तु तिष्ठतु । इह इति विशेष महत्त्वाल्पत्वलक्षणे विदुषां ज्ञातॄणां ग्रहो निर्बन्धो नास्ति । उपकारस्य स्वौद्धत्यपरिहार एव तात्पर्यम् । उपाय एवौपयिकीति विनयादिषु उपायाद्ह्रस्वत्वं च' इति पाठात्स्वार्थे ठकि तदन्तात् 'तत आगतः' इत्यणन्तत्वाद्वा ङीप् । 'युक्तमौपयिकं लभ्यम्' इत्यमरः ॥


 १ 'अत्र बिम्बप्रतिबिम्बभावेन दृष्टान्तोपमापरिवृत्तयोऽलंकारः' इति साहित्यविद्याधरी। २ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासो हेतुश्चालंकारौ' इति साहित्यविद्याधरी । ४ 'अत्र'छेकानुप्रासोऽप्रस्तुतप्रशंसा चालंकारौं' इति साहित्यविद्याधरी।