र्शापि सूरः सूर्यस्तत्संबन्धिनी सौरी भा दीप्तिः शतपत्रस्य कमलस्य विकासपूर्वं सौरभायैव भवति, न तु म्लान्यै । सौरभेत्यत्र 'पुंवत्कर्मधारय-' इति पुंवत् ॥
छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् । |
छेत्तुमिति ॥ हे भैमि, विधिर्ब्रह्मा पूर्वं निष्कलङ्केऽपीन्दौ विषयेऽतिसादृश्यात्प्रतिक्षणं भवन्नुत्पद्यमानो भवत्या वा वक्रबिम्बस्य विभ्रमो विशिष्टा भ्रान्तिस्तस्य विभ्रमं विलासं छेत्तुं शशाङ्कमानङ्के शशरूपेण कलङ्केन चिह्नितवानित्यहं शङ्के । यतो भिन्नभिन्नो भिन्नप्रकारः किंचिद्भेदयुक्तो विधिर्घटपटादिविधानं यस्य तादृशः।तस्माद्भवन्मुखमृगाङ्कयोरुत्पद्यमानसादृश्यभ्रान्तिनिरासाय चन्द्रं कलङ्केन चिह्नितवानित्यर्थः । इत्यहं मन्ये ! निष्कलङ्कं भवन्मुखं चन्द्रादप्यधिकमिति भावः । आनङ्के, चौरादिकाल्लक्षणार्थादङ्केर्लिट्। भिन्नभिन्नेति प्रकारे द्विरुक्तिः॥
ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः । |
ताम्रपर्णीति ॥ तव वर्णास्त्वद्वदननिर्गता वर्णाः प्रसन्नाः स्पष्टतरा निर्दोषत्वादुज्ज्वलाश्च, तथा स्वादवो मधुराः सुश्राव्याः क्रमेण मलयनिर्गतदक्षिणसमुद्रगामिताम्रपर्ण्याख्यनद्यास्तटे उत्पन्नैः, तथा-अमृतमयस्येन्दोः कुक्षौ जातैर्मौक्तिकैः सह बद्धा धृता स्पर्धा सादृश्यर्पो यैस्तेऽतिशयेन बद्धस्पर्धा वद्धस्पर्धतराः । 'इक्षुकुक्षिजैः' इति पाठे-इक्षुकुक्षेर्जातैर्मौक्तिकैः। ताम्रपर्णीजातस्य मौक्तिकस्य सौन्दर्यम् , न माधुर्यम् । इक्षुकुक्षौ यदि मौक्तिकानि जायेरन् , तदा माधुर्यातिशयात्तैः सह बद्धस्पर्धतरा इत्यभूतोपमा । इक्षुर्वंशविशेषः, तत्रोत्पन्नस्य मौक्तिकस्य वैद्यकनिघण्टौ शैत्यं माधुर्यं पित्तोपशमकत्वं चोक्तम् । वंशान्मौक्तिकोत्पत्तिः प्रसिद्धा पूर्वमुक्ता च ॥
त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः । |
त्वदिति ॥ तव गिरः क्षीरपाथोधेः क्षीरसमुद्रात्सकाशात्सुधयैव सहोत्थिता उत्पन्नाः । यस्माद्-अद्ययावदद्यतनदिनमवधीकृत्याद्याप्यहो चित्रं धावत्प्रसरदुग्धलेपलवरूपं स्मितं हास्यं यासु तादृश्यः। अमृतेन सह निर्गतत्वादमृतवन्मधुराः, क्षीरसमुद्राच्च निर्गतत्वात्स्मितव्याजेन तद्दुग्धलेपलेश एवाद्याप्यनुवर्तते । तद्वद्धवलस्मिताश्चेति भावः । धावत्, 'धावु गतिशुद्ध्योः' इत्यस्माच्छता ॥
पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव । |
- ↑ दृष्टान्तालंकार इति जीवातुः। २ संक्रमिताप्रिय इत्यत्र प्रियादित्वात्पूर्वपदस्य न पुंवद्भाव इति जीवातुसुखावबोधे।