पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७७
विशः सर्गः।


वदभिपूर्वान्नमस्कारार्थाचौरादिकाद्वदेः स्वार्थणिचि चङि च 'णौ चङि-' इत्युपधाह्रस्वः॥

इत्येतस्याः पदासत्त्यै पत्यैषा प्रेरि[१]तौ करौ।
रुद्ध्वा सकोपं सातकं तं कटाक्षैरमूहत् ॥ १६ ॥

 इतीति ॥ एष इत्येवमुक्तप्रकारेणैतस्या भैम्याः पदासत्त्यै चरणनिकटीभावाय प्रणामार्थं पत्या प्रेरितौ करौ नमस्कारारम्भानौचित्याद्रात्रिवृत्तस्य प्रकटनेन वा सरोषं पतित्वात्स्वीयचरणयोः पतिकरस्पर्शस्यानौचित्याद्वा आतङ्को भयं तेन च सह यथा तथा चरणस्पर्शात्पूर्वमेव स्वकराभ्यां रुद्ध्वा निवार्य तं कटाक्षैरमूमुहत्कामाधीनं चकार । एवं तया विलोकित एव कामवशो जात इति भावः । पदासत्त्यै, तादर्थ्यमात्रे चतुर्थी । मुहेरकर्मकत्वाद् 'गतिबुद्धि-' इत्यादिनाऽणौ कर्तुर्णौ कर्मत्वात्तमिति द्वितीया । अमूमुहत्, हेतुमण्णिचि चङ्युपधाह्रस्वादि॥

अवोचत ततस्तन्वीं निषधानामधीश्वरः।
तदपाङ्गचलत्तारझलत्कारवशीकृतः ॥ १७ ॥

 अवोचतेति ॥ ततस्तस्यास्तादृशकटाक्षविलोकानन्तरं निषधानामधीश्वरस्तन्वीं वक्ष्यमाणमवोचत । किंभूतः-तारशब्दस्य कनीनिकावाचित्वे नपुंसकलिङ्गत्वात्तस्या अपाङ्गे चलतस्तारस्य कनीनिकायाः किरणोल्लासलक्षणदर्शनचमत्काररूपो झलत्कारस्तेन वशीकृतः । यद्वा-चलन्ती तरला तारा यत्र तादृशश्चासौ झलत्कारश्च, ततः पूर्वेण षष्ठीसमासः । झलत्कार इति देश्यपदम् ॥

कटाक्षकपटारब्धदूरलनङ्करंहसा ।
दृशा [२]भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् ॥ १८ ॥

 कटाक्षेति ॥ हे प्रिये, कटाक्षकपटेन नेत्रप्रान्तवक्रविलोकनव्याजेनारब्धं कर्तुं व्यवसितं दूरलङ्घनेऽतिदूरदेशातिक्रमणे रंहो वेगो यया एतादृश्या ते दृशा कर्णरूपं कूपमग्रे निरूप्य विलोक्य भीत्या पुनर्निवृत्तं परावृत्तं किमित्युत्प्रेक्षा । दूरं गन्तुमुपक्रान्ता हि महान्तं कूपं पुरो दृष्ट्वा भयेन शीघ्रं परावर्तन्त एव । दृशेत्यनेन स्त्रीत्वं युज्यते । स्त्रिया हि भीतिर्युक्ता॥

सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम ।
तप्तापि शतपत्रस्य सौरभायैव सौरभा॥१९॥

 सरोषेति ॥ हे सरोजाक्षि, सरोषापि त्वं मम मुदे हर्षायैवोदेषि भवसि । अङ्गानामालिङ्गनाद्यर्थं दुरापत्वेन स्पृहणीयतरत्वात्सौन्दर्यातिशयाच्चेत्यर्थः । यस्मात्तप्ताप्युष्णस्प-


  1. ‘प्रेषितौ' इति पाठः सुखावबोधासंमतः
  2. दृशाभ्येत्येति पाठे-श्रोत्रकूपमभ्येत्य प्रत्यागत्य भूयो
    व्याधुटितं किमित्यर्थः । अस्मिन्पाठे कर्णकूपमित्यनेन भयं व्यङ्ग्यमिति सुखावबोधा