पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७५
विंशः सर्गः।

षीति रुष्टाभूदिति भावः । नर्ममर्म विध्यतीति व्यधेः क्विपि संप्रसारणे च 'नहिवृति-' इति पूर्वपदस्य दीर्घः॥

क्षणविच्छेदकादेव विधेर्मुग्धे विरज्यसि ।
विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलिः ॥ ८ ॥

क्षणेति ॥ तदा भैमीचिन्तावसरे गृहारामस्थविभीतकनिवासी कलिः हृदा मनसा इत्याहस्मावोचत् । इति किम्-हे मुग्धे मूढे भैमि, क्षणविच्छेदकात्क्षणमात्रमेव वियोगकारिणो विधेर्नित्यकर्मण एव हेतोस्त्वं विरज्यस्युद्विग्ना भवसीति काकुप्रश्नः। एतावतैवोद्वेगो न कार्य इत्यर्थः । यतोऽहं कलिस्त्वां चिरं न विच्छेत्ता विच्छेदनशीलो भवामि, अपि तु वियोजयिष्याम्येवेति । एवमहं करिष्यामि न जानासीति सप्रतिभं मनोरथमकरोदित्यर्थः । भावी वियोगः सूचितः । विच्छेत्ता, ताच्छील्ये तृन् । त्वेति, 'त्वामौ' इति त्वादेशः॥

सावज्ञेवाथ सा राज्ञः सखी पद्ममुखीमगात् ।
लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव ॥ ९ ॥

सावज्ञेति ॥ अथैवं नलवाक्यश्रवणोद्वेगानन्तरं सा भैमी नलेनानालिङ्गनात्स्वयमारब्धालिङ्गनानङ्गीकाराद्वा सावज्ञेव सापमानेव सती पद्ममुखी नलासकाशाद्धैम्यागमनसंजातहर्षत्वाद्विकसितकमलतुल्यवदनां सखीमगात्प्रतिजगाम । का कस्मात्कामिव-लक्ष्मीः कुमुदानां केदारात्क्षेत्रादारान्निकटे पद्मरूपवदनामम्भोजिनीं कमलिनीमिवेत्युपमा।लक्ष्मीनिर्गमे च कुमुदक्षेत्रस्य यथा म्लानत्वं, तथा भैमीनिर्गमे नलस्य; अम्भोजिन्याश्च लक्ष्म्यागमनानन्तरं यथा हर्षः, तथा भैम्यागमनानन्तरं सख्याः, इति सूचितमुपमया॥

ममासावपि मा संभूत्कलिद्वापरवत्परः ।
इतीव नित्यसत्त्रे तां स त्रेतां पर्यतूतुषत् ॥ १०॥

ममेति ॥ स नल इतीव हेतोर्नित्यसत्त्रे नित्याग्निहोत्रे विषये तामाहवनीयगार्हपत्यदक्षिणाग्निरूपेण प्रसिद्धां त्रेताम् । अथ च-त्रेतारूपं द्वितीयं युगम् । आज्यादिना पर्यतूतुषत्परितोषितवान्पूजितवांश्च । इति किम्-असौ त्रेतापि कलिद्वापरवन्मम परः शत्रुर्मा संभूदिति । अग्नित्रयमप्यपूजनेऽहितकारित्वाच्छत्रुरेव भवति । एतेन चाकरणे प्रत्यवायभियैव नित्याग्निहोत्रमकरोत्, तत्त्वतस्तु भैमीपर(वश) एवाभूदिति भावः । 'त्रेता त्वग्नित्रये युगे' इत्यमरः । अतूतुषत् , 'णौ चङि-' इत्युपधाहस्वः ॥

क्रियां प्राह्णेतनी कृत्वा निषेधन्पाणिना सखीम् ।
कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ ॥११॥
दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः ।
प्रमृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः॥ १२॥