पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७३
विंशः सर्गः।


विंशः सर्गः।

सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् ।
स प्राप रथपाथोभृड्वातजातजवो दिवः ॥१॥

 सौधेति ॥ सर्गसंगतिरुक्तैव । स रथ एव पाथोभृन्मेघः दिवः स्वर्गाद्गगनाच्च सौधो राजसदनमेवाद्रिस्तस्य कुट्टिमो नानावर्णानेकमणिबद्धभूमिः सैवानेकधातुका नानाविधगैरिकादिधातुयुक्ता अधित्यकोर्श्वभूमिस्तस्यास्तटं पर्यन्तप्रदेशं प्राप । किंभूतः-वातात्सकाशाद् (अर्थादधिको) जातो जवो वेगो यस्य । यद्वा-जातो जवो यस्य स जातजवः, वातो जातजवो यस्माद्धेतोः, तेनापि यस्माद्रथात्सकाशाद्वेगः शिक्षितः। अथवा-(वा)तेन जातः। मेघोप्युक्तविशेषणविशिष्टः पर्वतोर्ध्वदेशं गगनात्पतति । धातुकेति, 'शेषाद्विभाषा' इति कप् ॥

ततः प्रत्युदगाद्भैमी कान्तमायान्तमन्तिकम् ।
प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम् ॥२॥

तत इति ॥ ततः सौधोपरिभूमिप्राप्त्यनन्तरं दिनोंकारे दिनप्रारम्भे प्रभातेऽन्तिकमायान्तं सुधाकरं चन्द्रं प्रतीचीसिन्धुवीचीव पश्चिमदिक्समुद्रलहरीव भैमी रथादवतीर्यान्तिकं गृहपरिसरप्रदेशमागच्छन्तं कान्तं नलं प्रति लक्षीकृत्योद्गात्प्रत्युज्जगाम । एतेन भौम्या नल आदरातिशयः सूचितः । 'अन्तिके' इत्यपि पाठः । 'अधिकरणे च' इति चात्सप्तमी । वीची, 'कृदिकारात्-' इति ङीष् । दिनोंकारे, 'ओमाङोश्च' इति पररूपम् ॥

स दूरमादरं तस्या वदने मदनैकदृक् ।
दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत ॥३॥

स इति ॥ दृष्टा मन्दाकिन्या हेमारविन्दश्रीर्येन स नलस्तस्या वदने दूरं स्वर्णकमलादपि नितरामादरमविन्दत लेभे । अत एव मदने एका केवला मुख्या वा दृग्यस्य सः। स्वर्णकमलादप्यधिकं तद्दृष्ट्वा संभोगवासनयापश्यदित्यर्थः । एका दृग्यस्येति एकदृक्, मदने एकदृक् । 'सप्तमी' इति योगविभागात्समासः । माद्यति सहर्षा भवति मदना, नन्द्यादित्वाल्युः, ततः समानाधिकरणो वा बहुव्रीहिः॥

तेन स्वर्देशसंदेशमर्पितं सा करोदरे।
बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक् ॥ ४ ॥

तेनेति ॥ सा पद्मेव श्रीरिव बभ्राजे । किंभूता-स्वर्देशस्य स्वर्गदेशस्य गमनसमये मन्दाकिनीस्वर्णकमलं मम क्रीडार्थमानेयमिति संदेशरूपं तेन नलेनार्पितं दत्तं (पद्मं)