पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७१
एकोनविंशः सर्गः।

न स्वात्मीयं किमिति दधते भास्वरश्वेतिमानं
 द्यामद्यापि द्युमणिकिरणश्रेणयः शोणयन्ति ॥ ६४ ॥

 दूरेति॥ अयं भानुस्तिमिरजलधेस्तमःसमुद्रस्य शोषकत्वाद्वाडवो वडवानलः, चित्रभानुर्विभावसुः। तथा-ताम्यन्त्याः खिद्यन्त्या वनरुहवन्याः कमलवन्या एव कान्तायाः केल्या क्रीडया वैहासिकः परिहासकः क्रीडानर्मकारी हेलामात्रेण विकासकश्च । तथादूरं गगनमार्गमारूढ ऊर्ध्वमागतः, एवंभूतःसन् स्वात्मीयं स्वीयं तेजोरूपत्वात्सहजं भास्वरश्वेतिमानं स्वपरप्रकाशकशुक्लभास्वररूपत्वमद्यापि दूरारूढत्वेपि किमिति कुतो न दधते धारयति। तथा-द्युमणेः सूर्यस्य किरणश्रेणयश्चाद्यापि द्यां गगनं किमिति शोणयन्ति रक्तीकुर्वन्तीति प्रश्नद्वयम् । यद्वा-स्वीयं रूपं रविर्न धत्त इति । कुतो ज्ञातमित्याशङ्क्य प्रत्यक्षं प्रमाणयति-यद्यस्मादद्यापि सूर्यकिरणपङ्क्तयो द्यां शोणयन्ति, तस्माद्भास्वरश्वेतिमा सूर्येण न धृत इति ज्ञायत इत्यर्थः । एवं विशिष्टः सूर्यो दूरारूढः संजातः, तस्मादद्यापि सूर्यकिरणाः स्वीयं शुक्लभास्वरत्वं किमिति न दधते ना धारयन्ति । ऊर्ध्वमागतः सूर्यः, कमलानि च विकसितानि, तस्माच्छीघ्रमुत्तिष्ठेति भावः । 'चित्रभानुर्विभावसुः' इत्यमरः । दूरारूढः, गम्यादिदर्शनात्समासः। विहासे नियुक्तः स प्रयोजनम् , शिल्पं वास्येति 'तत्र नियुक्तः' इति, 'शिल्पम्' इति वा, ठक् । 'प्रयोजनम्' इति वा ठञ् । स्वात्मीयं, 'वृद्धाच्छः' । दधते 'दध धारणे' एतस्यैकवचनान्तम्, धाञश्च बहुवचनान्तम् । श्वेतिमा, पृथ्वादिः। शोणीं कुर्वन्तीति 'तत्करोति' इति ण्यन्तात् 'णाविष्ठवत्' इति पुंवद्भावष्टिलोपो वा ॥

प्रातर्वर्णनयानया निजवपुर्भूषाप्रसादानदा-
 द्देवी वः परितोषितेति निहितामान्तः पुरीभिः पुरः।
सूता मण्डनमण्डलीं परिदधुर्माणिक्यरोचिर्मय-
 क्रोधावेगसरागलोचनरुचा दारिद्र्यविद्राविणीम् ॥६५॥

 प्रातरिति ॥ सूता मागधा मण्डनमण्डलीं भूषणश्रेणीं परिदधुः तत्तद्धस्तकर्णाद्यवयवेषु धारयामासुः । किं भूताम्-आन्तःपुरीभिरवरोधसंचारिणीभिः सखीभिरित्युक्त्वा पुरो मागधानामग्रे निहितां स्थापिताम् । इति किम्-हे मागधाः, अनया प्रातर्वर्णनया प्रयोजिकया परितोषिता नितरां संतोषं प्रापिता देवी कृताभिषेका राज्ञी भैमी निजवपुर्भूषाः स्वीयशरीरालंकारभूता अनेकविधसुवर्णमणिप्रभृतीनि भूषणान्येव प्रसादान्पारितोषिकाणि वो युष्मभ्यमदात् इति । पुनः किंभूताम्-माणिक्यरोचिर्मय्या पद्मारागप्रभारूपया क्रोधस्यावेग आडम्बरस्तेन सरागलोचनरुचारुणनेत्ररुचा कृत्वा दारिद्र्यस्य विद्राविणीं पलायनकारिणीम् । मयि स्थितायामप्यत्र दारिद्र्य, त्वं कथं नाम स्थातुमिच्छसीति क्रुद्धया यया माणिक्यप्रभारूपनेत्रारुणकान्त्या कृत्वा दारिद्र्यं दूरादपसारितम् । एवं प्रभातवर्णने क्रियमाणे भैम्या निजशरीरभूषणैस्ते संमानिता इत्यर्थः । अन्योपि रोषारुणलोचनरुचा किंचिद्विद्रावयति । आन्तःपुरीभिरिति बहुत्वेन माणिक्येत्यादिना च भूषणानां बहुत्वममूल्यत्वं च सूचितम् । देवी प्रादादित्यनेन च नलः स्ना- ,