पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६८
नैषधीयचरिते


अवैमि कमलाकरे निखिलयामिनीयामिक-
 श्रियं श्रयति यत्पुरा विततपत्रनेत्रोदरम् ।
तदेव कुमुदं पुनर्दिनमवाप्य गर्भभ्रम-
 द्विरेफरवघोरणाधनमुपैति निद्रामुदम् ॥ ५९॥

 अवैमीति ॥ यत्कुमुदं कमलानामाकरे ख(ष)ण्डे सरसि वा । अथ च-कमलायाः संपद्रूपाया लक्ष्म्या आकरे गृहे कोशागारे, विततं विस्तारितं पत्ररूपनेत्राणामुदरं येन, विततानि पत्राण्येव नेत्रमध्यानि येन, तद्विकस्वरम् । अथ च-प्रसारितपक्ष्मनेत्रोदरम् उन्मीलितनेत्रम् । सत् (सा) निखिलयामिन्याः सकलरात्रिसंबन्धिनो यामिकस्य रात्रिचतुःप्रहरप्राहरिकस्य सकलरात्रिजागरूकस्य श्रियं शोभा पुरा श्रयंत्यशिश्रियत् । सायमारभ्य सूर्योदयावधि यद्विकसितमभूत् । अथ च-सकलां रात्रि जजागार, तदेव कैरवं पुनरिदानीं दिनमवाप्य गर्भे भ्रमन्तः सूर्यकिरणसंबन्धसंजातशीघ्रसंकोचवशान्निर्गन्तुमशक्तेरन्तःसंचारिणो द्विरेफास्तेषां निर्बन्धसंजातो रवस्तद्रूपा या घोरणा प्रसु- प्तघर्घरारवाडम्बरस्तस्या घनं निबिडं यथा तथा निद्रामुदं निद्रासंबन्धिसुखमुपैति । अन्तर्गतभ्रमरः सन् संकुचतीत्यर्थः । अथ च-यः कोशागारे सकलां रात्रिं जागर्ति स दिवसे घोरणाघनं यथा तथा निद्रातीत्यर्थः । इत्यहमवैमि । पुरा श्रयतीति, 'पुरि लुङ् चास्मे' इति भूते लट् । भीमशब्दार्थाद्धुरेर्णिजन्तात् ‘ण्यासश्रन्थ-' इति युच्[१]

इह किमुषसि पृच्छाशंसिकिंशब्दरूप-
 प्रतिनियमितवाचा वायसेनैष पृष्टः ।
भण फणिभवशास्त्रे तातङः स्थानिनौ का-
 विति विहिततुहीवागुत्तरः कोकिलोऽभूत् ॥ ६० ॥

 इहेति ॥ इह प्रभाते पृच्छाशंसिनः प्रश्नवाचिनः किंशब्दस्य प्रथमान्तं रूपं तेनैव प्रतिनियमिता प्रतिक्षणं शब्दान्तरभाषणाह्यावर्तिता वाग्येन कौ कौ इति नियतभाषिणा वायसेन काकेन फणिनः शेषाद्भवमुत्पन्नं महाभाष्यलक्षणशास्त्रम् । पाणिनीयमिति यावत् । तत्र तातङ्लक्षणादेशस्य स्थानिनौ आदेशिनौ कौ भण कथयेति पृष्टः कृतप्रश्न एष कोकिलो विहिता कृता या तुहीतिवाक् सैवोत्तरं यस्यैवंभूतोऽभूत् किम् । काकः प्रातः- स्वभावतः 'कौ कौ' इति वदति । कोकिलश्च 'तुही तुही' इति । काकः स्वभावात् 'कौ कौ' इति प्रथमाद्विवचनान्तं प्रश्नशब्दं ब्रूते, कोकिलश्च 'तुही तुही' इति । तत्रोत्प्रेक्षा । तुश्च हिश्च तुही, 'तुह्योस्ताताङ्ङाशिष्यन्यतरस्याम्' इति पाणिनिसूत्रस्मरणशीलः सन् तुहिस्थाने तातङो विधानात्तुहीति तातङः स्थानिनावित्युत्तरं कोकिलो दत्तवान्


  1. 'अवैमीत्युत्प्रेक्षायाम् । एकस्मिन्कुमुदेऽनेकयोर्निद्राजागरयोः क्रमेण प्रत्यभिधानात् “एकस्मिन्नथवानेकम्' इत्युक्तलक्षणपर्यायालंकारेण पूर्वोक्तनिदर्शना संकीर्णेति जीवातुः।