न्धाद्गजः कर्दमीभवति । तेन पाण्डूभवल्लोहमयत्वादधवलमापि धवलपङ्कवशाद्धवलं भवद्यच्छवच्छेदकारि करपत्रं तद्भावमिह प्रातःसमये वहति । शाङ्खिकशिल्पिनो हि छेदसौकर्यार्थं छिद्यमानशङ्खादिदेशे जलं क्षिपन्ति । दृढतरग्रन्थिच्छेदादौ च करपत्रं करेण निबिडं पीडयन्ति । शङ्खादिच्छेदककरपत्रं चार्धचन्द्राकारं संजातरज:पङ्कपाण्डुरं च भवति । अस्तमितार्धश्चन्द्रस्तादृक्करपत्रतुल्यो दृश्यत इत्यर्थः। सूर्योदयो जातः, तारा लुप्ताः, कमलानि विकसितानि, चन्द्रश्वार्धेनास्तमित इति भावः । जलजं, करेणेति च पक्षे जात्येकवचनम् । पाण्डूभवदिति च्विः ॥
जलजभिदुरीभावं प्रेप्सुः करेण निपीडय- |
जलजेति ॥ जलजं कमलं शङ्खश्च । करेणांशुना पाणिना च । अयं श्लोकः पूर्वेण समानार्थत्वात्क्षेपकः ॥
यत्पाथोजविमुद्रणप्रकरणे निर्निद्रयत्यंशुमा- |
यदिति॥ अंशुमान्पाथोजानां कमलानां विमुद्रणप्रकरण उन्मीलनप्रस्ताव एव यद्यस्मादृष्टीर्लोकनेत्राणि निर्निद्रयति विगतनिद्राणि करोत्युन्मीलयति। यस्साच्च हरिः श्रीविष्णुः शिवपूजासमये एककमलन्यूनं जलरुहां कमलानां सहस्रं स्वीयेनाक्ष्णा पूर्णयति स्म । तत्तस्मात्सरसीरहां दृशामपि वास्तवमबाधितं साजात्यं तुल्यजातीयत्वमस्ति । यत्साजात्यं मूलमारोपकारणं यस्यास्तादृशी यन्निबन्धना चक्षुषः पद्मेन सह उपमा सादृश्यं कविनृभिः कालिदासादिभिः कविभिराद्रियतेतरामत्यादरेणोपनिबध्यते । यदि नेत्राणि कमलसजातीयानि नाभविष्यन्, तर्हि रविः कमलोन्मीलनप्रस्तावे तानि नोदमीलयिष्यत् । श्रीविष्णुश्च कमलसहस्रं नेत्रेण नापूरयिष्यत् । न ह्यन्यप्रस्तावेऽन्यस्य योग्यताऽस्ति । तस्मादृशां कमलानां च साजात्यं वास्तवमस्त्येवेत्यर्थः । उदितः सूर्यः, कमलानि विकसितानि, सर्वोपि जनः प्रबुद्धः, तस्मात्त्वमपि प्रबुध्यस्वेति भावः । विष्णुः स्वचक्षुषा कमलसहस्र पूरितवानिति लिङ्गपुराणादौ द्रष्टव्यम् । विमुद्रणेति, विगतमुद्रं करोतीति ण्यन्ताद्भावे ल्युट् । निनिद्रयति 'तत्करोति-' इति णिच् । पूर्णयतीत्यत्रापि । समाना जातिः साजात्यमिति विग्रहे चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्, (नतु) 'समानस्य-' इति योगविभागात्समानस्य सः । वास्तवम्, आगतार्थे संबन्धे वाऽण् । तत्त्वपर्यायाव्ययवस्तुशब्दात्प्रज्ञादित्वात्स्वार्थे वा । पद्मोपमा, षष्टी समासः॥