पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६६
नैषधीयचरिते


तद्वदुज्वलतरं तव यश इत्यर्थः । शङ्खस्वनो हि मङ्गलदायकः । त्वद्यशोपि लोकानां शुभाय तव पुण्यश्लोकत्वाद्भवति । यस्य शङ्खस्य यशसश्च समुद्रप्रभवत्वाच्छुभ्रतरत्वाच्च सोदर्यः समानोदर्यो भ्राता स प्रसिद्धो द्विजेन्द्रश्चन्द्रो दिवि स्पष्टं लिखितोऽस्ति । निष्प्रभत्वाच्चित्रलिखित इव निर्व्यापारः स्फुटो दृश्यत इत्यर्थः । त्वमिह गगने प्रत्यूषसमये वास्य चन्द्रस्याद्धा निश्चितं श्रद्धाकरं शङ्खसहोदरत्वास्तिक्यबुद्धिजनकं करच्छेदं किरणविनाशमपि पश्य । शङ्खेऽपि किरणा न सन्ति, अस्यापीदानीं न सन्ति । किंचअस्य हरिणसंबन्धी हारिणो यः कलङ्कस्तद्रूपं नितरामतिशयितं म्लानेः श्यामतायाः स्थानमपि पश्य । शङ्खस्याप्युदरभागे नितरां श्यामतास्ति, सा चन्द्रेपि । तस्मादपि चन्द्रस्य शङ्खसोदर्यत्वं निश्चितं, तथा चन्द्रमपि तव यशो ब्रूम इत्यर्थः । उक्तप्रकारेण शङ्खसोदर्यत्वं चन्द्रस्य यद्यप्यस्ति (तदपि) तथापि हरिणसंबन्धी यः कलङ्कस्तदस्य सुतरां म्लानिस्थानं पश्य । चन्द्रस्य श्रद्धेयशङ्खभ्रातृत्वेपि निष्कलङ्क शङ्खमेव तव यशो ब्रूमो, नतु सकलङ्क्ं चन्द्रमिति भाव इति वा । अथ च हे राजन्, तव यश:श्रेयसे यशोविवृद्धये सृष्टशब्दं विरचितस्मृतिवाक्यं शङ्खनामानं मुनिं ब्रूमः । शङ्खस्तव यशोविवृद्धये स्मृतिं चकारेत्यर्थः । यस्य शङ्खमुनेः सोदर्यो भ्राता स लिखितनामा द्विजेन्द्रो ब्राह्मणश्रेष्ठो दिवि स्पष्टमस्ति । इह लिखिते श्रद्धाकरं सत्यविश्वासकारकमद्धा साक्षान्निश्चितं वा करयोः पाण्योश्छेदं कर्तनमपि पश्य । अथ च-श्रेयसे लोकानां कल्याणाय सृष्टः पुण्य(श्लोको) नल इति शब्दो यस्मिन्नेवंभूतं तव यशः शङ्खनामानमृषिं ब्रूमः समानधर्मत्वात् , नतु तद्भ्रातरं कलङ्कित्वात् । सोपि धर्मार्थस्मृतिवाक्यानि सृष्टवान् । यस्य भ्रातेति पूर्ववत् । लिखितस्य चौर्यं हस्तच्छेदश्च भारते ज्ञातव्यः । शाङ्खिकास्त्वत्प्रबोधार्थं शङ्ख वादयन्ति, तस्माच्छीघ्रमुत्तिष्टेति भावः । लिखितमुनिरेव दिवि ताराशङ्खो जात इति केचित् । समानोदरे शयित इत्यर्थे 'सोदराद्यत्' इति यत् । अस्मादेव निर्देशाद्यत्प्रत्ययविवक्षायामेव 'विभाषोदरे' इति पाक्षिकः समानस्य सः । हारिणः, संबन्धेऽण् , पक्षे आवश्यके णिनिः॥

ताराशङ्खविलोपकस्य जलजं तीक्ष्णत्विषो भिन्दतः
 सारम्भं चलता करेण निबिडां निष्पीडनां लम्भितः।
छदाथापहृताम्बुकम्बुजरजाजम्बालपाण्डूभव-
 च्छङ्खच्छित्करपत्रतामिह वहन्नस्तंगतार्धो विधुः ॥ ५७ ॥

 तारेति ॥ विशाखानक्षत्ररूपस्य मातृमण्डलसंज्ञस्य शङ्खाकारत्वाच्छङ्खस्य विलोपकः स्वप्रभया विनाशकस्तस्य, तथा–जलजं कमलानि भिन्दतो विकासयतः। अथ चयतस्ताराशङ्खविलोपकस्य, अतएव जलजं शङ्खं खण्डयतः । तीक्ष्णत्विषः सूर्यस्यैव शाङ्खि- कशिल्पिना सारम्भं सोद्योगं चलता प्रसरता । अथ च-घर्षणवशात्साटोपं गमनागमने कुर्वता । करेण रश्मिना पाणिना च निबिडां निष्पीडनां बाधां दृढां यन्त्रणां च लम्भितः प्रापितः । अस्तंगतमर्धं यस्य स विधुश्चन्द्रः शङ्खच्छेदसौकर्यार्थमुपहृतमानीतं यदम्बु जलं तस्य कम्बुजरजोजम्बालश्छिद्यमानशङ्खसंजातरजश्चयकर्दमः । उदकसंब-