पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६५
एकोनविंशः सर्गः।


ऽणवः शातिततेजसः कणास्तेषां गणैराक्रान्तत्वं युक्तम् । विश्वकर्मणा सूर्यः शाणमारापित इति पुराणम् । 'नयनयोराधेयत्वम्' इति पाठे-गुणेन वशेनेत्यर्थः । जालात्, जातावेकवचनम्[१]

दिनमिव दिवाकीर्तिस्तीक्ष्णैः[२][३] क्षुरैः सवितुः करै-
 स्तिमिरकबरीलूनां कृत्वा निशां निरदीधरत् ।
स्फुरति परितः केशस्तोमैस्ततः पतयालुभि-
 र्ध्रुवमधवलं तत्तच्छायच्छलादवनीतलम् ॥ ५५ ॥

 दिनमिति ॥ दिवाकीर्तिरिव नापित इव दिनं दिवसस्तीक्ष्णैः सवितुः करैरेव क्षुरैर्निशां तिमिरकबरीलूनां तमोरूपां वेणीं छिन्नमूलां कृत्वा निरदीधरन्निर्धारितवान् । मुण्डयित्वा वापि कश्चित्केशोऽवशिष्टः स्यादिति गवेषितवानित्यर्थः । अथ च-बहिर्निनिष्कासयामास । नापितोऽपि व्यभिचारादिदुष्टां स्वीयां परकीयां वा स्त्रियं क्षुरैर्मुण्डयित्वा देशाद्बहिर्निष्कासयति । ततोऽनन्तरं, तस्मान्मुण्डनाद्वा परितस्तत्र तत्र पतयालुभिरधःपतनशीलैः केशस्तोमैः कृत्वावनीतलं तेषां तेषां वृक्षादिपदार्थानां छाया प्रतिबिम्बं तस्य छलाद्याजेन ध्रुवं निश्चितमधवलं श्यामं स्फुरति शोभते । वृक्षाद्यधोभागे कृष्णत्वं मुण्डितकबरीपतयालुकेशसंबन्धकृतम्, नतु प्रतिबिम्बकृतमित्यर्थः । छायाव्यतिरिक्तं सर्वमपि तमो दिवसेन सूर्यकरैर्नाशितमिति भावः । 'दिवाकीर्तिस्तु नापितः' इत्यमरः। कबरी, 'जानपद-' इति ङीष्। लूनाम् , ल्वादित्वान्निष्ठानत्वम् । निरदीधरत् , धारेश्चङि 'णौ चङि-' इत्युपधाहस्वत्वेऽभ्यासस्य सन्वद्भावादित्वम्, 'दीर्घो लघोः' इति दीर्घः । तत्तच्छायेति 'विभाषा सेना-' इति वा नपुंसकत्वम् ॥

 इदानीं शाङ्खिकानां शङ्खशब्दं श्रुत्वा तद्यजेन नलयशोवर्णनं कुर्वन्ति-

ब्रूमः शङ्ख तव नल यशः श्रेयसे सृष्टशब्दं
 यत्सोदयं स दिवि लिखितः सष्टमस्ति द्विजेन्द्रः।
अड्बा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य
 म्लानिस्थानं तदपि नितरां हारिणो यः कलङ्कः ॥५६॥

 ब्रूम इति ॥ हे नल, वयं श्रेयसे मङ्गलाय सृष्टः कृतः शब्दो यस्य तं शङ्खं तव यश एव ब्रूमः त्वत्कीर्तिमेव शङ्खरूपतया वर्णयामः । शाङ्खिकैर्यः शङ्खो वाद्यते तत्त्वद्यश एव ।


  1. 'अर्कस्य करा इव करा हस्ता इति श्लिष्टरूपकम् । भ्रमन्त्य इव भान्तीत्युत्प्रेक्षा' इति जीवातुः।
  2. 'तीक्ष्णात्क्षुरात्सवितुः करात्' इति जीवातुसंमतः पाठः ।
  3. 'निशां शर्वरीं तिमिरकवरीं ध्वान्तलक्षणां
    वेणीं लूनां कृत्वा छिन्नमूलां विधाय। 'तिमिरकबरीलूनाम्' इति पाठस्तु लूनशब्दस्य क्तान्तत्वेन पूर्वनिपातप्राप्तेरुपेक्ष्यः' इति सुखावबोधा । 'जातिकालसुखादिभ्यः परवचनम्' इति लूनेति निष्ठाया:(न्तस्य) परनिपातः ।
    'बहुव्रीहेश्चान्तोदात्तात्' इति ङीष् , इति जीवातुः । एवंच 'लूनीम्' इति पाठो जीवातुसंमतः प्रतिभाति ।