पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६४
नैषधीयचरिते

 बह्विति ॥ येषां कराणां खरता तीक्ष्णताग्रे पूर्वं पूर्वाह्नसमये बह्वतितरां न प्रतिभासते स्फुरति । सर्वथा नोपलक्ष्यते इत्यर्थः । यद्वा-नसमासेन नखरताऽतीक्ष्णता । पूर्वाह्ने येषामतितरां तीक्ष्णत्वाभाव उपलभ्यते । खलु निश्चितम् । अथ च-येषामुपरिभागे बहवो नखरा नखा येषां तत्तोपलभ्यते । तेऽमी प्रत्यक्षदृश्या विकासहेतुत्वात्कमलानां सुहृदो बन्धोर्भानोः कमलवन्धवो वा कराः किरणा एव पाणयः प्रवालरुचो विद्रुमवद्गक्तकान्तयः, अथ च-प्रकृष्टबालकान्तयोऽतिबालाः, अथ च-बालपल्लववद्रक्तकान्तयः। दृश्यन्त इति शेषः । तथा -जालेष्वन्तःप्रवेशिभिर्गवाक्षादिविवरमध्यप्रविष्टैः, अतएव-आयतैस्तद्वशादेव दण्डवद्दीर्घीभूतैरेषामेव कियदवयवैः कतिपयैरवयवैः करणैरेषां किरणानां पाणीनां च य आलिङ्गितः संबद्धश्वासावङ्गुलिलङ्गिमा च, अङ्गुलिवल्लङ्गिमा मञ्जिमा, अथ च-अङ्गुलिभिर्लङ्गिमा, आलिङ्गिताङ्गुलिलङ्गिमा तदुचि- तमुचितम् । इयमतिशयेनौचिती। गवाक्षविवरप्रविष्टैः किरणावयवैः किरणानामङ्गुलीतुल्यत्वादाश्रिताङ्गुलिवच्चारुता युक्तैव । पाणीनामपि दीर्घै: कतिपयैरङ्गुलिकृता चारुता भवतीत्यपि युक्तमेवेत्यर्थः। जालेष्वन्तःप्रवेशिभिरायतैरेषां कियदवयवैः कर्तृभिरङ्गुलिलङ्गिमा आलिङ्गिता गवाक्षविवरप्रवेशानन्तरं समालिङ्गिष्यत इत्युचितम् । 'अ[१]ङ्गुलिचारुता' इति पाठः स्पष्टार्थः । 'नखोऽस्त्री नखरः' इत्यमरः। उचितमुचितम्, वीप्सायां द्विरुक्तिः। प्रवेशिभिस्ताच्छील्य आवश्यके वा णिनिः। आलिङ्गिता लिगिधातोः पक्षे कर्मणि लुट् पक्षे निष्ठा । लङ्गति रमणीयतया चित्तं प्रामोतीति गत्याल्लगिधातोः पचाद्यचि पृथ्वादेराकृतिगणत्वादिमनिच् समर्थनीयः[२]

नय नयनयोर्द्राक्पेयत्वं प्रविष्टवतीरमू-
 र्भवनवलभीजालान्नाला इवार्ककराङ्गुलीः ।
भ्रमदणुगणक्रान्ता भान्ति भ्रमन्त्य इवाशु याः
 पुनरपि धृता कुन्दे किंवा न वर्धकिना दिवः ॥ ५४॥

 नयेति ॥ भो राजन् , त्वं भवनस्याधोगृहस्योपरि वर्तमानानां वलभीनां गृहविशेषाणां जालाद्गवाक्षविराद्धेतोर्वलभीमेवार्थात्प्रविष्टवतीरमूरर्ककररूपा अङ्गुलीर्जालप्रवेशादङ्गुलीतुल्यान्सूर्यकरान्, अथ चरेष्वङ्गुलीनां युक्तत्वादर्ककराणामङ्गुलीर्नला इव कमलदण्डसदृशीर्नयनयोः पेयत्वं गोचरत्वं (द्राक् शीघ्रम् ) नय प्रापय सादरं पश्य । त्वन्नेत्रयोः कमलत्वाज्जालमार्गप्रविष्टास्त्वया विलोक्यमाना एतास्त्वन्नेत्रकमलनाला इव जनैर्द्रश्यन्त इत्यर्थः । जालानां वा कमलतुल्यत्वात्तन्नाला इव त्वं पश्येति वा । अमूः काः-या भ्रमतां जालप्रविष्टकिरणमध्ये परिभ्रमतामणूनां त्रसरेण्वादिरूपरजःकणानां गणेन समूहेनाकान्ता व्याप्ताः, अत एव-दिवो वर्धकिना स्वर्लोकतक्ष्णा श्वशुरेण विश्वकर्मणा पुनरपि कुन्दे शाणचक्रे धृता आरोपिताः सत्य आशु भ्रमन्त्य इव किंवा न भान्ति, अपि तु तथैव शोभन्ते । यद्धा-भ्रमन्तः शाणघर्षणवशात्परितः पतन्तो ये-


  1. अङ्गुलिवल्गुतेतिपाठो जीवातुसंमतः ।
  2. ' विशेषणसंकीर्णो निदर्शनाभेदः' । इति जीवातुः।