पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५८
नैषधीयचरिते

 सुरेति ॥ सुरपरिवृढः शक्रः कर्णात्कुण्डलद्वयं कर्णभूषणयुगं ब्राह्मणवेषं धृत्वा प्रतिग्रहरूपेणाग्रहीत् । किलेति पुराणादौ । अथ प्रतिग्रहानन्तरं मुदा तत्कुण्डलद्वयं खलु निश्चितं प्राच्चै दिशे प्रादात् । हि यस्मात्स शक्रस्तस्याः प्राच्याः पतिर्धवो रक्षिता च । प्रेयान्प्रियायै प्रीत्या निजकर्णादिभूषणं प्रयच्छति । तस्यै दत्तमिति कुतो ज्ञातमत आह-तत्र प्राच्यां तयोर्द्वयोर्मध्ये वा सायमुदयभागुदित्वर आरक्तकिरणरूपमेकं कुण्डलं व्यलोकि दृष्टम् । प्रातरहर्मणिर्नवतरास्तत्कालनिर्गताः करा रक्ततरकिरणास्तद्रूपस्वर्णस्रावि सुवर्णस्रवणशीलं तादृशमेव द्वितीयं कुण्डलं विलोक्यते । तस्मात्तस्यै तद्द्वयं तेन प्रत्तमित्यहं शङ्क इत्यर्थः । सूर्यस्य कुण्डलसम(र्थ)त्वमवश्यं वक्तव्यम्, प्रसङ्गाच्चन्द्रस्य कुण्डलत्वमुक्तम् । बालतरकिरणः सूर्य उत्तमसुवर्णस्राविकर्णकुण्डलमिव शोभत इति भावः । कर्णेनेन्द्राय कुण्डलद्वयं दत्तमित्यारण्यके पर्वणि कथा॥

दहनमविशद्दीप्तिर्यास्तं गते गतवासर-
 प्रशमसमयप्राप्ते पत्यौ विवस्वति रागिणी।
अधरभुवनात्सोद्धृत्यैषा हठात्तरणेः कृता-
 मरपतिपुरप्राप्तिर्धत्ते सतीव्रतमूर्तिताम् ॥ ४४ ॥

 दहनमिति ॥ या दीप्ती रागिण्यारक्ता सती विवस्वति सूर्यलक्षणे पत्यौ गतवासरप्रशमे पूर्वदिनावसाने सायंकाले प्रशमसमयमस्तमयकालं प्राप्ते, अत एव-अस्तं विनाशमस्ताचलं वा गते प्राप्ते सति । “अग्निर्ज्योतिः-" इत्याद्यग्निहोत्रमन्त्रादिप्रामाण्याद्दहनमविशत् । सैषा दीप्तिरधरभुवनात्पातालात्सकाशाद्धठाद्बलात्कारेणार्थात्तरणिमेवोद्धृत्योदयं प्रापय्य तरणेरग्रे कृतामरपतिपुरस्य स्वर्गस्य प्राच्या वा प्राप्तिर्यया एवंभूता तीव्रतया तीक्ष्णतया सह वर्तमाना मूर्तिर्यस्यास्तत्तां धत्ते । सूर्ये ऊर्ध्वदेशं प्राप्ते दीप्तिः खरतरा जातेति भावः । या नारी भर्तरि विनाशसमयं प्राप्ते विनष्टे सति तस्मिन्ननुरागिणी सती जन्मान्तरेऽपि तत्प्राप्त्यर्थमग्निप्रवेशं कुरुते सा दुष्कृतैः पातालप्राप्तमपि निरयपतितं 'व्यालग्राही यथा व्यालम् -' इत्यादिवचनप्रामाण्यान्निरयाद्बलादुद्धृत्य तस्य कृतस्वर्गप्राप्तिः सती सतीनां पतिव्रतानां व्रतमेव मूर्तिः शरीरं यस्याः, सती गौरी तस्या व्रतयुक्ता मूर्तिर्यस्यास्तां धत्ते । गौरीवदियमपीत्यर्थः । समयप्राप्ते, 'प्रा[१]प्ताप्न्ने च द्वितीयया'क्ष्रिता इति समा[२] सः ॥

बुधजनकथा तथ्यैवेयं तनौ तनुजन्मनः
 पितृशितिहरिद्वर्णाद्याहारजः किल कालिमा।


  1. इदं तु चिन्यम्, प्रप्तशब्दस्य पूर्वनिपातापते: तस्मात् ’ द्वितीयया'क्ष्रिता इति समासः
  2. 'अत्र प्रस्तुतदीप्तिविशेषणसाम्यादप्रस्तुत(सती)प्रतीतेः समासोक्तिरलंकारः' इति जीवातुः।