पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५७
एकोनविंशः सर्गः।

इह हि समये मन्देहेषु व्रजन्त्युदवज्रता-
 मभि रविमुपस्थानोत्क्षिप्ता जलाञ्जलयः किल॥४१॥

 यदिति ॥ यद्यदि त्वं भानावतिमहती भक्तिर्यस्यैवंभूतो वर्तसे । तत्तर्हि हे अध्वरपद्धतेर्यज्ञमार्गस्याध्वन्य महायाज्ञिक नल, उदित्वरमुदयशीलमेनं सूर्यं त्वरितमुपतिष्ठस्व पूजय । शीघ्रमुपस्थाने हेतुमाह-हि यस्मादिह समये प्रभाते किल प्रसिद्धं रविमभि लक्षीकृत्योपस्थानमन्त्रेणोर्ध्वं क्षिप्ता जलाञ्जलयो मन्देहाख्येषु राक्षसेषूदवज्रतां जलरूपाशनिभावं व्रजन्ति वज्रीभूय तान्भस्मीकुर्वन्तीति श्रुतावुक्तमित्यर्थः । 'तिस्रः कोट्योऽर्धकोटी च मन्देहा नाम राक्षसाः' इति पुराणं च। तस्मादुदयात्पूर्वं शीघ्रमुपतिष्ठस्वेत्यर्थः। 'अध्वन्यम्' इति पाठे-अध्वरपद्धतेरध्वानमलंगामिनम् । भक्तिशब्दस्य प्रियादित्वात्पुंवद्भावाभावः । अध्वन्यम्,अलंगाम्यर्थे 'अध्वनो यत्खौ' इति यत् । उदवज्रेति, ’मन्थौदन-' इत्युदकस्योदादेशः। 'अभिरभागे' इत्यभेः कर्मप्रवचनीयत्वाद्द्वितीया ।

उदयशिखरिप्रस्थावस्थायिनी खनिरक्षया
 शिशुतरमहोमाणिक्यानामहर्मणिमण्डली।
रजनिदृषदं ध्वान्तश्यामां विधूय पिधायिकां
 न खलु कतमेनेयं जाने जनेन विमुद्रिता ॥ ४२ ॥

 उदयेति॥इयमहर्मणिः सूर्यस्तस्य मण्डली उदयशिखरिण उदयाचलस्य प्रस्थे सानुन्यवस्थायिनी वर्तमानाऽक्षया भूयसी शिशुतराणि महांसि तेजांसि तान्येव माणिक्यानि तेषां खनिरुत्पत्तिभूमिर्ध्वान्तेन तिमिरेण ध्वान्तवच्च श्यामां पिधायिकामाकरद्वाराच्छादिकां रजनिरूपां दृषदं शिलां विधूयापनीय कतमेन केन जनेन विमुद्रितोद्घाटितेति न खलु नैव जाने । रात्रिविगमे यतो दृश्यत इत्यर्थः । वाक्यार्थः कर्म । न जाने।अर्थात्तं जनमित्यर्थ इति वा। अन्यापि माणिक्यादिखनिः पर्वतप्रस्थावस्थायिनी कृष्णतरशिलापिहिता केनापि भाग्यवतोद्धाट्यते । अतिशयितः कः कतमो ब्रह्मा तेन विमुद्रितेत्यहं न जाने, अपित्वेवमेव जानामि । कालपरिवर्तकारिणा ब्रह्मणैवोद्घाटितेत्यर्थ इति काकुर्वा । खनिः खलु खनिरेवेत्युत्प्रेक्षा वा । कतमः डतमच्, अतिशये स्वार्थे वा तम[१]ब्वा॥

सुरपरिवृढः कर्णात्मत्यग्रहीत्किल कुण्डल-
 द्वयमथ खलु प्राच्यै प्रादान्मुदा स हि तत्पतिः।
विधुरुदयभागेकं तत्र व्यलोकि विलोक्यते
 नवतरकरस्वर्णस्रावि द्वितीयमहर्मणिः ॥ ४३ ॥


  1. 'अत्र सूर्यमण्डल्यादीनां खनित्वाद्यारोपाद्रूपकालंकारः' इति जीवातुः।