पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५२
नैषधीयचरिते

वाचिनो 'वर्णादनुदात्तात्-' इति ङीष् तस्य नश्च । नीलति, 'नील वर्णे' इति धातुः । आचारक्विबन्तान्नीलशब्दात्तिब्वा ॥

सरसिजवनान्युद्यत्पक्षार्यमाणि हसन्तु न
 क्षतरुचिसुहृच्चन्द्रं तन्द्रामुपैतु न कैरवम् ।
हिमगिरिदृषद्दायादश्रि प्रतीतमदः स्मितं
 कुमुदविपिनस्याथो पाथोरुहैर्निजनिद्रया ॥ ३२ ॥

 सरसिजेति ॥ सरसिजवनानि न हसन्तु, अपि तु-विकसन्त्वेव । यद्यस्मादुद्यन्नुदित्वरः पक्षः सहायभूतः अर्यमा सूर्यो येषाम् । विकस्वराणीत्यर्थः । अथ च-यदि मित्रस्योदयो भवति, तदा सर्वोपि हर्षवशाद्विहसत्येव । तथा-कैरवं कुमुदं तन्द्रां संकोचं नोपैतु, अपि तु-प्राप्नोत्वेव । यतः-क्षतरुचिर्गतलक्ष्मीकः सुहृञ्चन्द्रो यस्य तादृशम् । चन्द्रोदयविकासिनः कुमुदस्य चन्द्रक्षये संकोचो युक्त एवेत्यर्थः । अन्योऽपि सुहृत्क्षये मूर्छावशान्निमीलति । अथो अथवा पाथोरुहैर्विकतकमलैः रात्रिसंबन्धिन्या निद्रया कृत्वा कुमुदवनस्यादः प्रत्यक्षदृश्यं स्मितं विकसितं प्रतीतं विनिमयेन गृहीतम् । किंभूतं स्मितम्-हिमगिरेर्हिमाचलस्य दृषदां शिलानां दायादांशभागिनी सदृशी श्री शोभा यस्य । शुभ्रतरमित्यर्थः । कमलानां रात्रौ निद्राभूत् , कुमुदानां विकासः । प्रातस्तु कमलानां विकासः, कुमुदानां च संकोचो दृश्यते, ततः स्वीयां निद्रां कुमुदेभ्यो दत्त्वा कमलैस्तद्विकासः परिवर्त्य गृहीत इति संभाव्यत इत्यर्थः । सूर्य उदितः, कमलानि विकसितानि, कुमुदानि च संकुचितानीति भावः । प्रतीतम् , प्रतिपूर्वादिणो निष्ठा । 'प्रतीष्टम्' इति च पाठः । अर्थः पूर्वोक्त एव ॥

धयतु नलिने माध्वीकं वा न वाभिनवागत:
 कुमुदमकरन्दौघैः कुक्षिंभरिर्भ्रमरोत्क्ररः ।
इह तु लिहते रात्रीतर्षं रथाङ्गविहंगमा
 मधु निजवधूवक्त्राम्भोजेऽधुनाधरनामकम् ॥ ३३ ॥

 धयत्विति ॥ अभिनवो नूतनः प्रभात आगतो भ्रमरोत्करो नलिने वर्तमानं माध्वीकं मकरन्दं धयतु पिबतु वा न वा । यतः-रात्रौ कुमुदमकरन्दौघैः कुक्षिभरिः परिपूर्णोदर आकण्ठतृप्तः । रात्रौ कुमुदमकरन्दवृन्दैः पूरितोदरत्वात्प्रातर्मधु पिबतु वा मा पिबतु वा ।न तत्रास्माकमाग्रह इत्यर्थः । अन्योऽप्याकण्ठतृप्तोऽतिथिर्भु्ङ्क्ते न वा, न तत्रादरः। रथाङ्गविहंगमास्तु रात्रीतर्षं सकलां रात्रिं तर्षित्वा वियुक्तत्वात्कुमुदमकरन्दं परित्यज्य पिपासयैव स्थित्वा इह प्रत्यक्षदृश्ये निजवधूवक्रलक्षणेऽम्भोजे वर्तमानमधरनामकमोष्ठसंज्ञं मधु अधुना प्रातःसमये लिहत आस्वादयन्ति । एतद्युक्तम् । तावतैव चाम्भोजस्यापि कृतार्थत्वं जातमित्यर्थः । अन्यत्रापि तृप्तापेक्षयोपोषितभोजनं युक्ततरं भवति ।