पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
नैषधीयचरिते

उत्फुल्लतनूरुहा कृता ताम् । च्विः । तथा-चञ्चपुटेन पक्षती पक्षमूले व्यलिखत्समीचकार । किंभूते पक्षती-करयन्त्रणेन नलहस्तनियमनेन धारणेन दन्तुरं निम्नोन्नतमन्तरं मध्यं ययोस्ते । (उत्फुल्लेति) 'उत्फुल्लसंफुल्योरुपसंख्यानम्' इति साधुः । दन्तुरेति 'दन्त उन्नत उरच्' । अत्र तून्नतत्वमात्रम् । पक्षती इत्यत्र ‘पक्षात्तिः' इति तिः॥

अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमङिणा ।
स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ ३ ॥

 अयमिति ॥ अयं हंसः स्खलनक्षण एव मोचनसमय एवालयं नीडं शिश्रियेऽभजत् । किंभूतः-पक्षतेः पक्षमूलस्याधिमध्यं मध्ये ऊर्ध्वगोर्ध्वगामिनी जङ्घा यस्मिन्कर्मणि तद्यथा तथा एकतमेनैकेनाङ्गिणा चरणेन द्रुतं शीघ्रं कण्डूयितो मौलिमस्तकं येन । हंसजातिः । एकतमेनेति 'स्वार्थेऽपि तमवादयः' इति वचनात्तमप् ॥

स गरुड्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् ।
नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः॥ ४॥

स इति ॥ स हंसः पटु कीटाद्यपनयने समर्थं चञ्चूपुटं तस्य कोटिरग्रभागस्तेन कुट्टनानि घट्टनानि तैः कीटान् तनुकण्डु तन्वी स्वल्पा कण्डूर्यस्यां क्रियायाम् । यथा तथा नुनुदे स्फोटयामास । किंभूतः-पण्डितः कण्डूयने कुशलः । किंभूतान्–गरुद्धनं पक्षवृन्दं तल्लक्षणं दुर्गं तत्र दुर्ग्रहान्धर्तुमशक्यान् । अत एव-कटु तीक्ष्णं पीडाकारि यथा तथा दशतः खादतः । तथा-क्वचिन्निर्हारयितुमशक्ये शरीरे देशे सतो विद्यमानान् । अन्योऽपि पर्वतदुर्गदुर्ग्रहानुपद्रवकारकान्मारणेन नुदति । नुनुदे इति स्वरितेत्त्वादात्मनेपदम् ॥

अयमेत्य तडागनीडजैर्लघु पर्यव्रियताथ शङ्कितैः ।
उदडीयत वैकृतात्करग्रहजादस्य विकस्वरस्वरैः ॥ ५ ॥

 अयमेत्येति ॥ अयं हंसस्तडागस्य नीडजाः पक्षिणस्तैरेत्यागत्य लघु शीघ्रं पर्यव्रियत वेष्टितः । अथानन्तरमस्य करग्रहजान्नलस्य हस्तग्रहणजाताद्वैकृताद्विकाराच्छङ्कितैस्त्रस्तैः अत एव विकस्वरस्वरैरुच्चस्वरैः पक्षिभिरुदडीयत उड्डीनम् । एषा पक्षिजातिः । वैकृतं दन्तुरपक्षत्वात् । तीर्थादौ करग्रहणार्थं कैश्चित्कश्चन परितो वेष्ट्यते । अथ वलिग्रहणजात्कलहादेः शङ्कितैरुच्चैः स्वरैर्गम्यते । 'लघु क्षिप्रम्' इत्यमरः । वैकृतात् । स्वार्थेऽण् । 'स्थेशभास-' इति वरचि विकस्वरः॥

वहतो बहुशैवलक्ष्मतां धृतरुद्राक्षमधुव्रतं खगः ।
स नलस्य ययौ करं पुनः सरसः कोकनदभ्रमादिव ॥६॥


१ 'अत्र स्वभावोक्तिरलंकारः' इति जीवातुसाहित्यविद्याधर्यो । २ 'अत्रापि स्वभावोक्तिरलंकारः' इति साहित्यविद्याधरी । ३ 'अत्र स्वभावोक्तिः श्लेषश्चालंकारौ । शब्दालंकारस्तु छेकानुप्रासः' इति • साहित्यविद्याधरी । ४ 'अत्र जातिरुक्तिर्लेशानुप्रासश्चालंकारः । करसहजादिति श्लिष्टम्' इति

साहित्यविद्याधरी।