पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४५
एकोनविंशः सर्गः।

च' इति नुम् । आश्मं, विकारेऽणि 'अश्मनो विकारे टिलोपः' इति टिलोपः।आश्मनेति संबन्धेऽणि विकाराभावाट्टिलोपाभावे आश्मनी चासौ छविश्चेति समासे 'पुंवत्कर्मधारय-' इति पुंवत् ॥

अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या
 परिणयति तां संध्यामेतामवैमि मणिर्दिवः॥
इयमिव स एवाग्निभ्रान्तिं करोति पुरा यतः
 करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ॥२०॥

 अरुणेति ॥ भो राजन् , या संध्या अरुणस्य किरणरूपे वह्नौ उडूनि नक्षत्राण्येव लाजाञ्जुहोति, दिवो मणिस्तामेतां प्रातःसंध्यां परितो नयति प्रापयति विवाहयतीत्यहमवैमि मन्ये । यत इयमिव संध्या यथा रक्तवर्णत्वादग्निभ्रान्तिं विपर्ययज्ञानं पुरा करोत्यकरोत् । यद्वा-यथेयं करोति, तथा स एव सूर्योपि रक्ततरत्वादुष्णकरत्वाच्च वह्निबुद्धिं पुरा करोत्युदितमात्र एव करिष्यति । अथचेयं संध्या पुरा प्रथमं वह्निप्रदक्षिणपरिभ्रमणं यथा करोति, तथैवास्या अनन्तरमेव सूर्योपि वह्निप्रदक्षिणपरिभ्रमणमिदानीमेव करिष्यति । एवकारोऽप्यर्थः । यतश्च सकौतुकं यथा तथा तस्य सूर्यस्यैव करं किरणमपीक्षितुं कः पुरुषो नोत्कः नोत्क्षिप्तजलः, अपितु मन्देहराक्षसनिराकरणद्वाराऽस्य किरणमीक्षितुं सर्वोप्यर्घ्यदानं करोतीत्यर्थः । अथच -सकौतुकं माङ्गलिकसूत्रकङ्कणेन सह तस्य विवोढुः सूर्यस्यैव हस्तमपि वीक्षितुं कः पुरुषो नोन्मनाः, अपि तु-सकङ्कणं वरकरं सर्वोपि द्रष्टुमुत्कण्ठित एव । या च वधूः परिणीयते, सा प्रदीप्ते वह्नौ लाजाञ्जुहोति । सा च वह्निं पूर्वं प्रदक्षिणीकरोति, वरोपि तया सह पश्चात्प्रदक्षिणीकरोतीति संध्यासूर्ययोर्वधूवरत्वमुक्तम् । अरुणोदयो जातः, तत्प्रभया च तारा न दृश्यन्ते, संध्यासमयश्च जातः, अधुना रविरुदेतीति भावः । 'कौतुकं कुतुके ख्यातं हस्तसूत्रेपि कथ्यते' इति विश्वः । किरण इति पक्षे जातावेकवचनम् । परिणयति, णोपदेशत्वाण्णत्वम् । इयमिव पुरा करोतीति पक्षे 'पुरि लुङ्चास्मे' इति लट् । पक्षान्तरे तु 'यावत्पुरानिपातयोर्लट्' इति भविष्यति लट् ॥

रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां
 प्रियवचसि यन्नग्नाचार्या वदामतमां ततः ।
अपि विरचितो विद्मः पुण्यद्रुहः खलु नर्मणः
 परुषमरुषे नैकस्यै वामुदेति मुदेपि तत् ॥ २१ ॥

 रतीति ॥ रतिरतिपत्यो रतिकामयोर्द्वितैव द्वैतम् । रतिद्वैतं कामद्वैतं चेति यावत् । तस्येव श्रीर्ययोस्तत्संबोधनं हे भैमीनलौ, नग्नानां बन्दिनामाचार्या वैतालिका वयं प्रियेऽनुकूले वचसि यद्यस्माद्धुरं भारं विभृमस्तरां चाटुवचनेषु वयमेव प्रगल्भतरास्ततस्त-