पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४१
एकोनविंशः सर्गः।

पता अप्युड्डीय यान्ति । सूर्यकिरणा गगने खेलन्ति, चन्द्रः प्रतीचीं गतः, ताराश्च न दृश्यन्त इति भावः । इह नभसीति वा । शशेन नित्ययुक्तः शशी । त्रासादिव, तदधिगमनादिवेति च प्रतीयमानोत्प्रेक्षा । 'अथ शशादनः । पत्री श्येनः', 'श्यैनंपाता च मृगया' 'पारापतः कलरवः' इत्यमरः । पतनं पातः । भावे घञ्, श्येनानां पातः श्येनपातः सोऽस्यां क्रियायां वर्तते श्यैनंपाता मृगयेति 'घञः सास्यां क्रिया-' इति ञः, 'श्येनतिलस्य-' इति [१]मुम् ॥

भृशमबिभरुस्तारा हाराच्च्युता इव मौक्तिकाः
 सुरसुरतजक्रीडालूनाद्द्युसद्वियदङ्गणम् ।
बहुकरकृतात्प्रात: समाजनादधुना पुन-
 र्निरुपधिनिजावस्थालक्ष्मीविलक्षणमीक्ष्यते ॥ १३ ॥

 भृशमिति ॥ सुरसुरतं देवमिथुनरतं तस्माजाता क्रीडा विलाससंमर्दः, अथ च-सुरतुल्यराजादिरतक्रीडासंमर्दः, तेन लूनात्रुटिताद्धाराच्च्युता मुक्ता इव वृत्ततरास्तारा द्युसद्वियदङ्गणं सुराणामजिरभूतं यद्गगनं भृशं नितरामबिभरुरपूपुरन् । तद्गगनमधुना पुनः बहवः सहस्रं करा यस्य स सूर्यस्तेन अथ, च-रजःशोधकेन खलप्वा कृतात्प्रातःसंमार्जनात्प्राभातिकात्सम्यङ्मार्जनात्तिमिरनिराकरणद्वारा शोधनात्, अथ च-शोधन्या रजोपनयनेन शोधनान्निरुपधिरुपाधिरहिता स्वाभाविकी निजावस्था सहजदशा तस्याः श्रिया कृत्वा तमीसंबन्धिशोभात्यागात्, अथ च-रजःपुष्पमालामुक्ताद्युपाधित्याजनात्, सहजश्रिया विलक्षणमन्यादृशमीक्ष्यते विलोक्यते । सूर्यकरैर्गगनं भूषितम् , ताराश्च सर्वथा न दृश्यन्त इत्यर्थः । इयदिति पाठे-हस्ताभिनयादतिमहदित्यर्थः। 'खलपूः स्याद्बहुकरः' इत्यमरः । अबिभरुः, 'सिजभ्यस्त-' इति झेर्जुस् । दिवि सीदन्तीति द्युसदः'सत्सूद्विष-'इति क्विप् 'हृद्द्युभ्यां ङेरुपसंख्यानम्' इत्यलुक्प्राप्तावपि 'तत्पुरुषे कृति बहुलम्' इति बाहुलकान्ङेर्लुक्, 'दिव उत्', 'सात्पदाद्योः' इति षत्वनिषेधः । बहुकरः, खलपूपक्षे 'दिवाविभा-'इति टः । उपधिः 'उपसर्गे घोः, किः'॥

प्रथममुपहृत्यार्घं तारैरखण्डिततण्डुलै-
 स्तिमिरपरिषद्दूर्वापर्वावलीशबलीकृतैः ।
अथ रविरुचां ग्रासातिथ्यं नभः स्वविहारिभिः
 सृजति शिशिरक्षोदश्रेणीमयैरुदसक्तुभिः ॥ १४ ॥

 प्रथममिति ॥ नभः कर्तृ रविरुचां तिमिरपरिषत्तमःसमूहस्तद्रूपा दूर्वापर्वावल्यो दूर्वाग्रन्थिपरंपरास्ताभिःशबलीकृतैः कर्बुरीकृतैर्मिश्रितैस्तारैर्नक्षत्ररूपैरुज्ज्वलैश्चाखण्डितत-


  1. 'रूपकालंकारः' इति जीवातुः