पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
एकोनविंशः सर्गः।


वृद्धाया भावो दशमितेति वा । विशिष्टस्तालो वितालः स शिल्पं येषां वैतालिकाः 'शिल्पम्' इति ठक् । सौखशायिका इत्यर्थः। तदुक्तम्-'वैतालिकास्तु कथ्यन्ते कविभिः सौखशायिकाः। राज्ञः प्रबोधसमये घण्टाशिल्पास्तु धाण्टिकाः' । जगिरे 'गैशब्दे' कर्मणि तङ् । अस्मिन्सर्गे 'ब्रूमः-' इति यावद्धरिणीछन्दः ॥

जय जय महाराज प्राभातिकीं सुषमामिमां
 सफलयतमां दानादक्ष्णोर्दरालसपक्ष्मणोः ।
प्रथमशकुनं शय्योत्थायं तवास्तु विदर्भजा
 प्रियजनमुखाम्भोजातुङ्गं यदङ्ग न मङ्गलम् ॥२॥

 जयेति ॥ भो महाराज, त्वं जय जय सर्वोत्कर्षेण वर्तस्व । त्वमिमां प्रत्यक्षदृश्यां प्राभातिकीं प्रातःकालसंध्यादिजनितां सुषमां परमां शोभा दरमीषदलसे तत्कालमेव निद्रात्यागादीषद्धूर्णनयुते अर्धोन्मिषिते पक्ष्मणी ययोरक्ष्णोर्नॆत्रयोर्दानाद्विषयीकरणाद्धेतोः सफलयतमामतितरां सफलां कुरु । त्वत्कृतदर्शनेनेयं धन्या भविष्यति तस्माच्छीघ्रमुद्रुध्यस्वेति भावः । विदर्भजा शय्योत्थायं शय्यायाः सकाशादुत्थाय तव प्रथमं पूर्वं प्रातःकालभवं च शकुनं शुभसूचकं वस्त्वस्तु । तत्स्थाने भैम्येव भूयादुत्थितः सन् प्रथमोत्थितभैमीमुखमेव प्रथमं पश्येत्यर्थः । यद्यस्मात्-हे अङ्ग स्वामिन् , प्रियजनस्य मुखाम्भोजादन्यत्तुङ्गमुत्कृष्टं मङ्गलं शुभावहं वस्तु नास्ति । प्रातरुत्थाय प्रथमं प्रियजनमुखं कर्तव्यमिति लौकिकी स्थितिः । त्वत्तः पूर्वं भैम्युत्तिष्ठत्विति भावः । दरालसपक्ष्मत्वं तत्कालमुद्बुद्धस्य जातिः । 'पश्चाच्छयनं पूर्वमुत्थानम्' इति स्मृतिः, उत्तमकुलस्त्रीजातिश्च । जयजयेति वीप्सायां द्विरुक्तिः। प्रभाते भवेति 'कालाठ्ठञ्' । सफलयतमाम् 'तकरोति-' इति ण्यन्ताल्लोटि तमपि 'किमेतिङ्-' इत्यामुः। शय्योत्थायम् 'अपादाने परीप्सायाम्' इति णमुलू । परीप्सा त्वरा । 'तृतीयाप्रभृतीनि-' इति स[१]मासः॥

वरुणगृहिणीमाशामासादयन्तममुं रुची-
 निचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् ।
तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ
 निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित ॥३॥

 वरुणेति ॥ हे राजन्, हरेरिन्द्रस्य महिषी राज्ञी असौ प्राची हरिद्दिक् इतः प्राग्भागेऽह्नः प्रारम्भमाग एव निजमुखं तिमिरत्यागे प्रसादमिषान्नैर्मल्यव्याजात्स्मेरं सहासं धत्ते बिभर्ति । उत्प्रेक्षते-कथंभूतेव-वरुणस्य गृहिणीं भार्यां प्रतीचीमाशामासादयन्तमभिगच्छन्तम् । अत एव-रुचीनिचयस्य कान्तिसमूहरूपस्य सिचयस्य वस्त्रस्यांशा


  1. 'अर्थान्तरन्यासः' इति जीवातुः।