पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३३
अष्टादशः सर्गः।

मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम् ।
तौ ततोऽनु परिरम्भसंपुटैः पीडनां विदधतौ निदद्रतुः ॥१५२ ॥

 मिश्रितेति ॥ ततोऽनु तादृक्प्रियभाषणमध्य एव भैमीसंभोगरसानन्तरं परिरम्भरूपे संपुटे । संश्लेषपेटिकायामिति यावत् । तत्र पुनरपि पीडनां गाढालिङ्गनां विदधतौ कुर्वाणौ तौ मिश्रिते परस्परान्तरालघटिते ऊरू यस्यां क्रियायां तद्यथातथा, मिथः पानवशादन्योन्यमिलितावधरौ यस्यां क्रियायां तद्यथातथा, स्वप्ने वीक्षिता परस्परक्रियाऽन्योन्यचुम्बनादिव्यापारो यस्यां क्रियायां तद्यथातथा निदद्रतुः । क्षीरनीरालिङ्गनं कृत्वा निद्रितावित्यर्थः । पीडनां ण्यन्तत्वाद्युच् ॥

तद्यातायातरंहश्छलकलितरतश्रान्तिनिश्वासधारा-
 जस्रव्यामिश्रभावस्फुटकथितमिथःप्राणभेदव्युदासम् ।
बालावक्षोजपत्राङ्कुरकरिमकरीमुद्रितोर्वीन्द्रवक्ष-
 श्चिह्नाख्यातैकभावोभयहृदयमयाद्वन्द्वमानन्दनिद्राम् ॥१५३॥

 तदिति ॥ तद्द्वन्द्वं स्त्रीपुंसमिथुनमानन्देन संभोगसुखभरेण निद्रामयात्प्राप । किंभूतम्-निद्रासंबन्धिश्वासानां यातायातयोर्निगमप्रवेशयोः संबन्धिनो रंहसो वेगस्य छलेन व्याजेन कलिताऽङ्गीकृता या रतश्रान्तिनिश्वासधाराः सुरतश्रमसंजातनिश्वासपरम्परास्तासामन्योन्यमजस्रमनवरतं सुतरां यो व्यामिश्रभावः निद्रावशभैमीनासानिर्गतश्वासपरम्परासु निद्रावशनलनासानिर्गतनिश्वासपरम्पराः प्रविष्टाः एवं वैपरीत्येनापि ज्ञातव्यम् । भैमीनिश्वासधारा निर्गत्य नलनिश्वासधारया सह मिलित्वा नलनासिकां प्रविशति, अत्रापि वैपरीत्यं ज्ञातव्यम् । इति मिश्रीभावार्थमिव यातायाते । तथा च-जले जलप्रवेशवदन्योन्यस्य निश्वासपरम्पराणामतितरामभेदोपलम्भ इति यावत् । तेन कर्तृभूतेन स्फुटं स्पष्टं कथितः मिथोऽन्योन्यस्य प्राणानां भेदव्युदासो भेदनाशः प्राणैक्यं यस्य । तथा-बालाया वक्षोजौ स्तनौ तत्र पत्राङ्कुराः पत्रवल्लीभूताः, तत्पत्रवल्लीषु वर्तमानाः करिमकर्यः कस्तूर्यादिरचिता हस्तिमकर्यस्ताभिर्मुद्रितं चिह्नितं निद्रासमयकृतगाढालिङ्गनवशात्संलग्नप्रतिरूपकं कृतमुर्वीन्द्रवक्षस्तद्रूपं चिह्नं तेनाख्यातोऽतितरां स्पष्टं कथित एकभाव एकत्वमभेदो यस्यैवंभूतमुभयोर्भैमीनलयोर्हृदयं वक्षस्थलम् , अथ च-चित्तं यत्र । यातेत्यादि, बालेत्यादि च द्वयं क्रियाविशेषणत्वेन वा योज्यम् । आत्मैक्यं शरीरैक्यं च क्रमेण वर्णितमिति ज्ञेयम् । उभयोरपि मिश्रितश्वासत्वादेकप्राणशब्दश्लेषादुत्प्रेक्षितम् ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।