पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३१
अष्टादशः सर्गः।


मयि स्वत्वं नाभविष्यत्तर्हि इन्द्रं परित्यज्य मां नावरिष्यः । वृतवत्यसि तावत्, तस्मादेवमपि मया याचितुमयुक्तमेवेति तव किंकरोस्मीति भावः। दिवस्पतिं, दयापणेनेत्येताभ्यामिन्द्रापेक्षया त्वदपेक्षया चाहमतितरां गुणवानिति वृत इति न, किंतु मद्वरणे तव कृपैव हेतुः, सा यावज्जीवं कार्येत्यर्थः ॥

शृण्वता निभृतमालिभिर्भवद्वाग्विलासमसकृन्मया किल ।
मोघराघवविवर्ज्यजानकीश्राविणी भयचलासि वीक्षिता ॥१४७॥

 शृण्वतेति ॥ किल कदाचित्समये आलिभिः सह असकृद्भवत्या वाग्विलासं कथासंवादं निभृतं पश्चादागत्याज्ञातं यथातथा वरदानाददृश्यत्वेन वा गुप्तं यथातथा शृण्वता, निभृतं रहसि स्थितत्वान्मच्छ्रावणशङ्काभावात्स्पष्टं स्वच्छन्दं सखीभिः सह भवत्संवादं किल शनैः पश्चादागमनाददृष्टीकरणादिना कपटेन शृण्वता सता वा, मया त्वं वीक्षिता एवंभूता दृष्टाऽसि । किंभूता-मोघं वह्नौ परीक्ष्याप्यकारणं श्रीराघवेण विवर्ज्यां त्यक्तां स्वस्मिन्नेवानुरक्तामपि जानकीं शृणोतीति तच्छीला सीतेव भयेन स्वत्यागशङ्काभीत्या चला व्याकुला । ([१]तस्मात्किंकरभूते मय्यन्यथा धीर्न कार्येति भावः।) यद्वा-यस्माद्भीता दृष्टासि, तस्मादवश्यं मयि तवानुरागोस्तीति निश्चित्य धीयतां मयि-'इति वक्तुमयुक्तमिति भावः।राघवः गोत्रापत्ये विदादेराकृतिगणत्वादञ् । बहुत्वे तु 'यञञोश्च' इत्यञो लुक् । तेन 'रघूणामन्वयं वक्ष्ये' इति साधुः ॥

छुप्तपत्रविनिमीलितात्क्षुपात्कच्छपस्य धृतचापलात्पलात् ।
त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम् ॥ १४८ ॥
त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहः श्रुता।
नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः ॥ १४९ ॥

 छुप्तेति ॥ त्वमिति ॥ युग्मम् । अयं नलस्तां प्रतीति वरमभीष्टं व्याहरदुवाच । अभयदानं प्रादात् । इति किम्-हे भैमि, कदाचित्सखीसमूहेन सह गोष्ठ्यां प्रसृतायां प्रसङ्गात्का कस्माद्बिभेति, का कस्मादिति तथ्यं कथ्यतामित्यन्योन्यं भयहेतुप्रश्ने कृते छुप्तानि स्पृष्टानि पत्राणि यस्यैवंभूतोऽङ्गुल्यादिना स्पृष्टमात्रः सन्विशेषेण निमीलितः संकुचितः, तस्मात्क्षुपाल्लज्जालुसंज्ञकादोषधिविशेषात्सकाशादहं सुतरां बिभेमीति कयाचिदुक्तम्, धृतं चापलं (ये)न स्वभावत एव चलतः कच्छपस्य पलान्मांसादहमित्यन्यया कथितम् , अनिशं शिरोधुतो मूर्धानं कम्पयतः प्रतिक्षणमन्यवर्णात्सरटात्कृकलासात्सकाशादहमित्यपरया, इत्येवं त्वत्सखीषु स्वं निजं भियो भयस्य वैभवं हेतुमभिदधतीषु भाषमाणासु सतीषु कयाचिदस्माभिर्निजभयहेतुरुक्तस्त्वयापि कथ्यतामिति त्वां प्रत्युक्ते सति नलवियोगाद्धेतोरहं बिभेमि क्षणमात्रमपि तेन न भाव्यमिति तस्मादेव बिभेमि नत्वन्यस्मादिति मदीयविरहान्निजां भीतिं रहसि ईरितवती त्वं मया श्रु-


  1. अयं पाठः पूर्वश्लोकव्याख्यान्तर्गतः प्रतिभाति ।