पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२२
नैषधीयचरित

 पुनरपि भङ्गयन्तरेण तदेवाह-

विश्लथैरवयवैर्निमीलया लोमभिर्द्रुतमितैर्विनिद्रताम् ।
सूचितं श्वसितसीत्कृतैश्च तौ भावमक्रमकमध्यगच्छताम ॥११७॥

 विश्लथैरिति ॥ तौ भावलाभश्रमवशात्स्वोद्वहनेपि विश्लथैः शिथिलीभूतैरवयवैरङ्गैः, तथा-निद्राभावेपि निमीलया श्रमजनितनयनसंकोचत(न)या, तथा-तस्मिन्क्षणे द्रुतं शीघ्रं विनिद्रतामुल्लासमितैर्गतैर्लोमभी रोमाञ्चैः, तथा-श्वसितैः श्रमजमुखनासिकाश्वासैः सीत्कृतैश्च तैः सर्वैः सूचितमक्रमकं युगपत्संजातं बिन्दुच्युतिजन्यसुखरूपं भावमध्यगच्छताम् । समरतं प्राप्तावित्यर्थः। भोगिनोः संभोगान्ते श्लथावयवत्वादि जातिः। क्रमकं 'क्रमादिभ्यो वुन्' इति वुन् ॥

आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।
फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥११८॥

 आस्तेति ॥ एवं भावमधिगच्छतोः सुरतान्तसुखमनुभवतोस्तयोः करजक्षतानां नखक्षतानामर्पणादानं संमदेषु परमानन्देषु मध्ये आस्ताभूत्। आनन्ददायिकैवाभूदित्यर्थः। ननु क्षतस्य सुखदायित्वं कथमित्यत आह-स्फुटं यस्मात्काणितेषु दुग्धविकाररूपेषु खण्डविकारेषु वा पानकेषु मध्ये सा सूपशास्त्रप्रसिद्धा मरिचावचूर्णना कटुरसापि स्पृहावहा मधुररसजन्यारुचिपरिहारेण दृढामिच्छामावहति, तथा-कटुः पीडाजनिकापि नखक्षतार्पणा सुखकारिण्येवाभूदित्यर्थः । संमदेषु नानाप्रकारेषु सुरतेषु भावं प्राप्नुवतोस्तयोस्तस्मिन्नेव समये सा कामशास्त्रप्रसिद्धा कटुः पीडाजनिकापि नखक्षतार्पणा स्पृहाबहाऽभूत् । स्फुटशब्द इवार्थः । केषु केव-फाणितेषु कटुरसा मरिचावचूर्णनेव । सुरतान्ते कृताऽपि पुनः सुरतेच्छामेवोददीपदिति भाव इति वा । भावमधिगच्छतोस्तयोः कटुरपि सुरतेषु स्पृहावहा या नखक्षतार्पणा सा स्फुटं निश्चितेषु फाणितेषु मरिचावचूर्णनाऽभूत् । तद्रूपैव तद्रूपेव वाऽभूदित्यर्थः इति वा । 'मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता' इत्यमरः । चूर्णना 'सत्यापपाश-' इति णिजन्ताधुच ॥

अर्धमीलितविलोलतारके सा दृशौ निधुवनल्लमालसा ।
यन्मुन्हूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ॥ ११९ ॥

 अर्धेति ॥ निधुवनक्लमेन सुरतश्रमेणालसा । सुरतायासनिःसहाङ्गीत्यर्थः । सा दृशौ मुहूर्ते क्षणमात्रमर्धनिमीलिते ईषत्संकुचिते विलोले तारके ययोस्तादृशे (शौ) यवहदधार, तत्तादृग्भैमीनेत्रावस्थानं पश्यतो दयितस्य पुनस्तृप्तिर्नास्त माभूत् । पुनः पुनः पश्यत इति वा (भावः)। पौनःपुन्यदर्शनाभिलाषस्यानिवृत्तत्वात्पश्यन्नेव स्थित इत्यर्थः । तादृशी तस्य सुतरां सुखायाभूदिति भावः ॥