दिति भावः। अददर्शत 'णिचश्च' इति तङ् । ('[१] ऋदृशोऽङि गुणः' ।) तां [२] बुद्ध्यर्थत्वात्कर्मत्वम् ॥
एवं भैम्या भावलाभवेगभङ्गोपायमुक्त्वा नलस्य भावलाभवेगभङ्गभङ्गीमाह-
तत्क्षणावहितभावभावितड्वादशात्मसितदीधितिस्थितिः । |
तत्क्षणेति ॥ स प्रियाया अभिमते क्षणे स्वेष्टसमये भैमीभावलाभौत्सुक्यात्पूर्वमेवोदय उत्पत्तिः समयो यस्यास्तां भावलाभे स्वां निजां बिन्दुच्युतौ लघुतां शीघ्रतां नुनोद अन्यचित्तीकरणेन व्यलम्बयदित्यर्थः । तदेवाह-किंभूतः-तस्मिन्नेव क्षणे निजभावौत्सुक्यसमयेऽवहितभावेनैतस्या इव ममापि भावलाभश्चेत्स्यात् , तर्हि विषमरतत्वाद्वैरस्यमेव स्यात् , अतस्तुल्यकालमेवोभयोर्भावलाभं करवाणीति सावधानतयोक्तप्रकारेणैव सावधाने वा भावे चित्ते भाविता ध्यानवासनादिभिश्चिन्तिता द्वादशात्मनः सूर्यस्य, सितदीधितेश्चन्द्रस्य, स्थितिमर्यादा गगनगमनादिप्रकारो येन सः। तद्ध्यानेन निजबीजस्तम्भनार्थं स्वस्यैव संपादितवैचित्त्यः सन्निति यावत् । अथ च-सावधानतया कृता सूर्यचन्द्रापरपर्यायेडापिङ्गलाख्यदक्षिणवामनाडीस्थयोर्मरुतोः स्थितिः स्थैर्यं येन । कुम्भितपवन इत्यर्थः । अन्यचित्ततासंपादनेन नासावायुस्तम्भनेन चोपायेनैकसमयोभयभावप्राप्तिपर्यन्तं स्वीयं भावं स्थिरीचकारेति भावः । एतेन भङ्गया नलस्य योगाभ्यासोपि सूचितः, अन्येन तथा कर्तुमशक्यत्वात् । 'दक्षिणनासामुद्रणे पुरुषस्य, वामनासिकामुद्रणे योषितो बिन्दुस्तम्भो भवति' इति कामशास्त्रातूस्वीयं तदीयं च भावं स्थिरीचकारेति वा । विस्तरेणालम् ॥
इदानीं समरतमाह-
स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः। |
स्वेनेति ॥ स तु नलः पुनः स्वेन स्वयमेव भावजनन उभयोर्भावप्राप्तिसमये स्वेन सह वा स्वेनात्मनैव का यद्भावजननं तस्मिन्सति वा । स्वस्य भावजनकसमय इति यावत् । तत्र बाहुमूलं कक्षा, कुचौ नाभिश्च एतेषां चुम्बनैः कृत्वा रतस्य रहसि समापना तज्जनितं परमकाष्टापन्नं शर्म सुखं, समापनारूपो वा शर्म, सारस्तस्य समस्तुल्यो यः संविभागौऽशस्तद्वतीं समरतप्रापणेन सुखिनीं निर्ममे चकार । स्वेनेत्यस्य प्रथमद्वितीयव्याख्ययोः कक्षादिचुम्बनं जातिः । तृतीयायां तु-कक्षादेर्निरन्तरं कामाधिष्ठानत्वात्तचुम्बनैरुपायैः स्वस्य भावप्राप्तिसमये तामपि भावमलम्भयदिति भावः । 'भावभजनेन तु-' इति पाठे-स्वीयेन भावभजनेन निमित्तेन बाह्वादिचुम्बनैरिति व्याख्या ॥