पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१९
अष्टादशः सर्गः।

 यदिति ॥ हारमौक्तिकैस्तदीये हृदि वक्षसि, अथ च-चित्ते, यदासि स्थितं लग्नम् , तत्र गुणो दोरकस्तारत्वादिरेव कारणं हेतुः । अन्यथा नचेदेवं तर्हि तदा सुरतसमये गुणच्युतैः सूत्रभ्रष्टैस्तैमौक्तिकैरमुत्र तदीये हृदि वर्तितुं स्थातुं कथं कस्मान्नशाकि समथैर्न जातम् । अथ च-तारत्वादिगुणहीनैमौक्तिकैस्तदीयहृदये न स्थीयते किंतूत्तमैरेव । तस्मादुभयविधेपि भैमीहृदये स्थातुं मौक्तिकानामन्वयव्यतिरेकाभ्यां द्विविधोपि गुणो हेतुरित्यनुमानम् । सुरतसंमर्दान्मुक्ताहारस्त्रुटित इति भङ्ग्यन्तरेणोक्तम् । अन्यस्यापि विदग्धहृदयगामित्वे गुण एव हेतुः, गुणहीनेन तु चित्ते स्थातुं न शक्यते इति भङ्ग्या सूचितम् । गुणच्युतैः ‘पञ्चमी' इति योगविभागात्समासः॥

एकवृत्तिरपि मौक्तिकावलिश्छिन्नहारविततौ तदा तयोः ।
छाययाऽन्यहृदये विभूषणं श्रान्तिवारिभरभावितेऽभवत् ॥ १०९॥

 एकेति ॥ तदा संभोगसमये तयोर्द्वयोर्मध्य एकस्मिन्नल एव वृत्तिर्यस्या एवंभूतापि मौक्तिकावलिरन्यस्या भैम्या हृदये छायया विभूषणमभवत् । किंभूतेऽन्यहृदये-छिन्ना हारस्य विततिर्विस्तारो यस्य । यतः-श्रान्तिवारीणि स्वेदबिन्दवस्तेषां भरः पूरस्तेन भाविते व्याप्ते । द्वयोः समीपे संमुखस्थितयोर्मध्ये भैम्या हारे त्रुटितेऽपि स्वेदजलपूरिते हृदये प्रतिबिम्बितो नलस्य हार एवाभरणं बभूवेत्यर्थः । अन्यहृदय इति सर्वनामत्वात्पुंवद्भावः[१]

वामपादतललुप्तमन्मथश्रीमदेन मुखवीक्षिणानिशम् ।
भुज्यमाननवयौवनामुना पारसीमनि चचार सा मुदाम् ॥११०॥

 वामेति ॥ वामपादतलेन लुप्तो मन्मथश्रीमदः कामसौन्दर्यगर्वो येनातिसुन्दरेणाप्यनिशं भैमीमुखवीक्षिणा केवल भैम्यधीनेनामुना नलेन भुज्यमानं नवं नूतनं यौवनं तारुण्यं यस्याः सा भैमी मुदां संतोषाणां पारसीमनि परतीरमर्यादायां परमोत्कर्षे चचा- रावर्तत । भावावसानसमयं प्रापेत्यर्थः । वामपादतल-, मुखवीक्षि-, इति पदवयं लौकिकोक्तिः । एवंभूतेन च भुज्यमानत्वान्मुदां परमोत्कर्ष प्रापेतियुक्तम् । मुखवीक्षणं दिने रात्रावपि वरदानप्रकाशितदीपवशाज्ज्ञेयम् ॥

आन्तरानपि तदङ्गसंगमैस्तर्पितानवयवानमन्यत ।
नेत्रयोरमृतसारपारणां तद्विलोकनमचिन्तयन्नलः ॥ १११ ॥

 आन्तरानिति ॥ नलः स्वीयानान्तराशरीरमध्यवर्तिनोस्पृश्यमानानप्यवयवान् तद्ङ्गसंगमैः सुकुमार भैम्यवयवस्पर्शेरतिवेधकतया तर्पितान्सुखितानमन्यत । तथा-तद्विलोकनं च स्वीयनेत्रयोरमृतस्य सारेण श्रेष्ठभागेन पारणां तद्रूपं तृप्तीकरणमचिन्त- यद्बुबुधे । पुनः पुनर्भैमीगाढालिङ्गनदर्शनादन्तर्बहिश्च प्रीणितोभूदित्यर्थः । अन्तरशब्दाद्वा भवार्थेऽण् । तर्पितान् ण्यन्तात्कर्मणि क्तः॥


  1. 'अत्रैकस्यैव हारस्योभयत्र भूषणत्वेनासंबन्धेपि संबन्धोक्तस्तद्रूपातिशयोक्तिरलंकारः' इति जीवातुः।