पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१७
अष्टादशः सर्गः।

रक्ततीक्ष्णाग्रत्वान्नखरव पलाशपुष्पैरर्चनं पूजामाचचार । कृताङ्गरागयोः कुचयोर्नखपदानि रचितवानित्यर्थः । अल्पनखोल्लेखस्य व्यथाराहित्येन शोभामात्रहेतुत्वापादनमिवेत्युत्प्रेक्षा । कस्तूर्या अभ्यर्हितत्वात्पूर्वनिपातः॥

अम्बुधेः कियदनुत्थितं विधुं स्वानुबिम्बमिलितं व्यडम्बयत ।
चुम्बदम्बुजमुखीमुखं तदा नैषधस्य वदनेन्दुमण्डलम् ॥ १०२ ॥

अम्बुधेरिति ॥ सुरतावसरेऽम्बुजमुख्या भैम्या मुखं चुम्बद्धयन्नैषधस्य वदनेन्दुमण्डलं कर्तृ प्रतिदिनमुदयसमयेऽम्बुधेः समुद्रात्कियत्स्तोकमनुत्थितम् , तथा-समुद्रजले जातेन स्वानुबिम्बेनात्मीयप्रतिबिम्बेन मिलितं निरन्तरसंबद्धं विधुं चन्द्रं व्यडम्बयदनुचकार । भैमीमुखं कर्तृ नलमुखं कर्मीभूतं चुम्बदिति वा । अनेन विपरीतरतं सूचितम् । बिम्बप्रतिबिम्बभावनिरूपणेनात्यन्तं तन्मुखयोः सादृश्यं सूचितम् । कामसुहृचन्द्रोदयनिरूपणाच्च कामोज्जृम्भणं व्यज्यते ॥

पूगभागबहुताकषायितैर्वासितैरुदयभास्करेण तौ ।
चक्रतुर्निधुवनेऽधरामृतैस्तत्र साधु मधुपानविभ्रमम् ॥ १०३ ॥

 पूगेति ॥ पूगफलफालिकानां भागोऽशस्तस्य बहुतया कषायितैस्तुवररसं प्रापितैः 'कषायः सुरभावपि-'इत्यभिधानात्सुरभितैर्वा । तथा पक्केनोदयभास्कराख्येन ताम्बूलमध्ये गृहीतेन कर्पूरेण वासितैः, सुरभितैरन्योन्याधरामृतैर्वा, अधररसैरेवामृतैः कृत्वा तौ दमयन्तीनलौ तत्र निधुवने सुरते मधुपानस्य विभ्रमं मद्यपानरूपं विलासं साधु सम्यग्यथा तथा, अथ च-मद्यपानजन्यं विभ्रमं चक्रतुः। मद्यपानस्थानेऽन्योन्याधरपा- नमेव चक्रतुस्तेनैव च नितरां सोन्मादौ जाताविति भावः । अन्योपि कषायरसं कर्पूरवासितं शीतलं मधु पिबति । साध्वनिषिद्धं मध्विति वा । सुरते मधुपानविभ्रममधरामृतैः साधु यथा तथा चक्रतुः। उपदंशस्थानेऽधरामृतानि जातानीत्यर्थः । भोगेति पाठे-अनुभवः । रागेति पाठे-बहुताम्बूलचर्वणक्रमविवर्धमानरक्तिमबाहुल्येनेत्यर्थः । कषायितैः 'तत्करोति-' इतिण्यन्तानि[१]ष्टा॥

आह नाथ वदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।
सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥ १०४ ॥

 आहेति ॥ तदा.सुरतचुम्बनावसरे सीत्कृतानि वितन्वती कुर्वती, तथा कामावस्थाविकारविशेषेण सत्त्वेन दत्तः पृथुर्वेपथुः कम्पो यस्यास्तादृशी सती चुम्बने(तो) नाथव- दनस्यानक्षरं वर्णैर्विना तत्कार्यकारित्वेन शीतकरतां चन्द्रतामाह स्म । चन्द्रस्पर्शाद्यथा सुखं भवति, तथा नलमुखस्पर्शात्तस्या अभूदित्यर्थः । शीतेपि सीत्कारः कम्पश्च भवति, मुखादक्षरं च न निर्गच्छति । शीतं कर्तुं शीलमस्य शीतकरः 'कृञो हेतुता- च्छील्या-' इति टः॥


  1. सादृश्याक्षेपानिदर्शनालंकारः' इति जीवातुः