पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१३
नैषधीयचरिते


ग्ममिव बभौ । रतिकामयोरियमेव यशःप्रशस्तियन्नखक्षतादिकरणं नाम । सुवर्णतुल्यत्वादूर्वोः सुवर्णस्तम्भत्वम् । अन्यस्यापि प्रभोर्यशःप्रशस्तिर्जयस्तम्भे लिख्यते ॥

बह्वमानि विधिनापि तावकं नाभिमूरुयुगमन्तराङ्गकम् ।
स व्यधादधिकवर्णकैरिदं काञ्चनैर्यदिति तां पुराह सः ॥ ९९ ॥

 बह्विति ॥ स तां पुरेत्याह अवोचत् । इति किम्-हे भैमि, नाभिमूरुद्धयमन्तरा नाभ्यूरुद्वयमध्येऽङ्गकं कोमलतातिशयान्मर्दनासहतयाल्पं ह्रस्वं वा मदनसदनाख्यं तावकमङ्गं न केवलं मया, किंतु वीतरागेण विधिना ब्रह्मणापि बहु नितराममान्यादृतम् । यद्यस्मात्कारणात्स ब्रह्माधिको वर्णो येषां तैरतिगौरवर्णैरत्युत्तमैः काञ्चनैरिदं कामगृहं व्यधादकृत । निरन्तरावृतत्वादुष्णशीतवातादिसंबन्धाभावादलोमत्वाञ्चाङ्गान्तरापेक्षयाऽधिकवर्ण वराङ्गं दृष्ट्वा प्रदीप्तकामः सन्नेवमुवाचेत्यर्थः । अश्लीलमप्येतन्मैथुनादन्यत्र निषेधाद्वराङ्गदर्शनं युक्तमिति ज्ञेयम् । नाभिमित्यादौ 'अन्तरान्तरेण-' इति द्वितीया । अङ्गकम् 'अल्पे' 'ह्रस्वे' इति वा कन् । पुराहेति भूते 'पुरि लुङ्चास्मे' इति लट् ॥

पीडनाय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती ।
तत्कुचौ कलशपीननिष्ठुरौ हारहासविहते वितेननुः ॥ १०० ॥

 पीडेति ॥ कलशवत्पीनौ पीवरौ निष्ठुरौ कठिनौ च तावतिप्रसिद्धगुणौ तस्याः कुचौ कर्तृभूतौ कान्तस्य पाणिनलिने करकमले कर्मभूते हारस्य हासः प्रकाशस्तेन विहते आच्छादिते वितेनतुश्चक्रतुः । स्पृशन्तावपि नलकरौ हारदीप्त्या पिहितावित्यर्थः। अथवा हार एव हासस्तेन पराभूते कृतोपहासे चक्रतुः । यतो-विगाह्य तावेवाभितः स्पृष्ट्वा पीडनाय मर्दनाय स्पृहावती साभिलाषे धृतेच्छे । यतो-मृदुनी मर्दयितुमसमर्थौ । स्वयं मृदुर्हि महतः कठिनस्य च पीडनाय न प्रभवतीति मृदुभ्यां युवाभ्यां विशालौ कठिनौ चावां मयितुमशक्यावितीयं वाञ्छा वृथा धार्यते स्वपरतारतम्यं न ज्ञायते भवद्भयामिति तत्कुचाभ्यां नलकरौ हारहास्येन विडम्बितावित्यर्थः । सर्वतः स्पृष्टावेव न तु पीडिताविति भावः । 'अकर्मकठिनौ हस्तौ-' इति लक्षणात्काठिन्यमेव राजकरस्य गुणः, तथापि नलिनरूपणात्कठिनत्वेपि कुचापेक्षया मार्दवान्मृदुनी इत्युक्तम् । पीडनाय स्पृहावती ते मृदुनी विशेषेण ज्ञात्वा हासविहते चक्रतुरिति वा । अन्योपि निष्ठुरो मृदुमुपहसति ॥

यौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ वधूकुचौ ।
स प्रियोरसि तयोः स्वयंभुवोराचचार नखकिंशुकार्चनम् ॥१०१॥

 याविति ॥ यौ वधूवरौ कुरङ्गमदेन कस्तूर्या कुङ्कुमेन चाञ्चितौ पूजितौ कृतविलेपनावत एव क्रमेण नीला लोहिता रुक्कान्तिर्ययोः, अथ च-नीललोहितो हरस्तत्कान्ती एवंभूतौ स नलस्तयोर्यौवनारम्भे प्रियोरसि भैमीवक्षसि स्वयमेव भवतोः प्रादुर्भवतो