पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१४
नैषधीयचरिते


पुनरहं गिरं नो करवाणीति न, अपि तु करोम्येव । यत्त्वया चुम्बनादि याचितं तत्सर्वं करोम्येव । यत इत्यर्थः । हुमिति सुरतसंमर्दासहत्वेन पूर्यतामित्यर्थे । त्यज त्यज इति पीडानटने । मुञ्च मुञ्च मामित्यर्थः । अहं तव किंकरास्मीति दैन्यनटने । इत्येवंप्रकारेणालीकरते मिथ्यैव सुरते कातरा भीरुः । सुरते विषये बलात्कारभीता सती आत्मानं यथाकथंचिन्मोचयितुमेवेयं वदति, न तु हेलयेति । तथा-अद्यापीयमप्रौढेति प्रियं विप्रलभ्य प्रतार्य एतादृशीं वृथाबुद्धिं तस्योत्पाद्य, तथा ह्रियमपि प्रतार्य मामियमद्यापि न मुञ्चति । बलात्कारभयाच्चुम्बनादि करोति, न तु स्वेच्छयेति लज्जात्यागमप्यप्रकटीकृत्य चुम्बनादि पूर्वोक्तं सकलमपि सुरतसंभारं प्रौढतयैव विततार प्रियाय ददौ । यतो मायिनी मायावती । उक्तप्रकारेण कपटेनाच्छादितनिजकामोन्मादप्रौढिरिति यावत् । यस्मात्-विदग्धं व्यवहारचतुरं मनो येषां मानवानां किं वस्तु अगोचरो विषयो न भवति, अपि तु-सर्वमपि साध्यमेव । चतुरा हि असाध्यमपि साधयन्ति । अलीकतरकातरेति पाठे-अलीकतरं कातरेति समासः। त्यज वीप्सायां द्विरुक्तिः। किंकरेति 'दिवाविभा-' इति टच्प्राप्तावपि 'किंयत्तद्बहुषु कृञोज्विधानम्' इत्यच् । ततष्टाप्॥

खेप्सितोद्गमितमात्रलुप्तया दीपिकाचपलया तमोघने।
निर्विशङ्करतजन्मतन्मुखाकृतदर्शनसुखान्यभुङ्क्त सः ॥ ९२ ॥

 स्वेति ॥ स तमसा घने तस्मिन्सौधे, अथ च -तमस्तुल्ये घने मेघे तमोरूपे मेघे स्वेप्सितेन स्वेच्छामात्रेणोद्गमितमात्रा प्रकाशिता चासौ तदानीमेव लुप्ता शमिता च, तथा-दीपिकयैव चपलया विद्युता दृष्टनष्टया निर्विशङ्कं यद्रतं तस्माज्जन्म येषां तानि च तानि तस्या मुखाकूतानि वदनेङ्गितानि तेषां दर्शनानि तज्जन्यानि सुखान्यभुङ्क्तान्वभूत् । अन्धकारवशाद्भैमी स्वेच्छाविरचितमुखाकृतदर्शनसुखानुभवार्थं वह्निवरदानवशात्तदानीमेव दीपिकां प्रकाशितवान् तदानीमेव च लज्जावती स्यादिति भिया पुनस्तां शमितवानिति भावः । विद्युदप्येवंभूता भवति । लुप्तेत्यन्तर्भावितण्यर्थे ज्ञेयः ॥

यद्भुवौ कुटिलिते तया रते मन्मथेन तदनामि कार्मुकम् ।
यत्तु हुंहुमिति सा तदा व्यधात्तत्स्मरस्य शरमुक्तिहुंकृतम् ॥९३॥

 यदिति ॥ तया रते भ्रुवौ कुटिलिते वक्रिते इति यत् , तन्मन्मथेन कार्मुकमेवानामि । यत्तु पुनः सा तदा सुरतसमये सुरतसंमर्दनिःसहतावारणव्याजेन हुं हुमिति रतिक्लृप्तशब्दं व्यधात्, तत्स्मरस्य शरमुक्तिहुंकृतं बाणमोचनकालीनं हुंकारमेवाकृत हुंकार एवाभूत् । तस्या हुंकरणं कामस्य चापनमनमित्यर्थः । कामस्य वामत्वाद्भूवक्रणादिना कामः पुनरुज्जृम्भित एवाभूदिति भावः ॥

ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।
कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥ ९४ ॥