पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१३
अष्टादशः सर्गः।


चित्तमघटमानघटनात्कुतुकं, तद्दर्शनजातमाः किमेतदिति चमत्करणमद्भुतमाश्चर्यं,लज्जा त्रपा, आकस्मिकदीपदर्शनादातङ्को भयं गोप्यान्यपि मदीयाङ्गानि प्रियेण दृष्टानीति शङ्कातिशये वातङ्कः, तेषां संकटे संमर्दे मध्ये निवेशितः स्मरो यत्र तदेवंभूतमाप । विशेषणविधौ तात्पर्यम् । दीपौ दृष्ट्वा कौतुकादिसहिताभूदिति भावः॥

एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम् ।
जातवह्निवरसंस्मृतिः शिरः सा विधूय निमिमील केवलम्॥८८॥

एककस्येति ॥ द्वयोर्दीपयोर्मध्य एककस्य दीपस्य मुखचेलाञ्चलादिना शमने निर्वाणे क्रियमाणे सति पूर्वशमितमपि तं द्वितीयं दीपं नलेच्छामात्रेण पुनरपि जाग्रतं प्रदीप्तमवेक्ष्य जाता वह्निवरसंस्मृतिर्यस्याः सा स्मरणाभिनयवशाद्वा शिरो विधूय केवलं निमिमील निमीलितवती । लज्जाभिनयः । कौतुकवशात्तदीयगोप्यावयवविलोकनार्थं तस्या निरुपायत्वार्थ पुनः पुनः शामितानपि दीपानिच्छामात्रेणाजिज्वलदिति भावः । एकस्य शामने कृतेऽपरदीपं जानतं दृष्ट्वा शमितमपि पुनर्जाग्रतं दृष्ट्वेति व्याख्येयम् । एककः पूर्ववत् ॥

पश्य भीरु न मयापि दृश्यसे यन्निमीलितवती दृशावसि ।
इत्यनेन परिहस्य सा तमः संविधाय समभोजि लज्जिता ॥७९॥

 पश्येति ॥ अनेनेति परिहस्य सोपहासमुक्त्वा तदीयलज्जापाकरणार्थं दीपाभावेच्छामात्रेण तमः संविधायान्धकारं निर्माय सा समभोजि संभुक्ता । ततो लज्जिता । इति किम्-हे भीरु लज्जाभयकातरे, यद्यस्मात्त्वं दृशौ निमीलितवत्यसि । तस्मात्त्वं मयापि न दृश्यसे पश्य नेत्रनिमीलनात्त्वया यथा स्वीयमङ्गं न निरीक्ष्यते, तथा मयापि त्वदङ्गमित्यर्थः । अथ च-त्वया नेत्रे निमीलिते, मया तु त्वं न दृश्यसे चित्रमेतत् । यस्मान्मया न द्रष्टव्यमिति हेतोस्त्वया नेत्रे निमीलिते, तावतैव मया न दृश्यसे, अपि तु दृश्यस एव । अन्या हि गोप्यमङ्गं वस्त्रादिनाच्छादयति, त्वया तु नेत्रे एव निमीलिते। तथा च मया त्वदीयगोप्यमङ्गं कामं दृष्टमेवेति किं नेत्रनिमीलनेन पश्येति । अमुना नलेन लज्जिता सा तमः सम्यग्विधायानन्तरं चैवं परिहासपूर्वमुक्ता । भीरु ऊङन्तत्वान्नदीत्वाद्ध्र्स्वः । तत्सामर्थ्यान्न गुणः ॥

चुम्ब्यसेयमयमङ्क्यसे नखैः श्लिष्यसेयमयमर्प्यसे हृदि ।
नो पुनर्न करवाणि ते गिरं हुं त्यज त्यज तवास्मि किंकरा ॥९०॥
इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा ।
चुम्बनादि विततार मायिनी किं विदग्धमनसामगोचरः॥युग्मम्

 चुम्ब्यसे इति ॥ इतीति । युग्मम् । हे प्रिय मयाऽयं त्वं चुम्ब्यसे, अयं त्वं नखैरङ्क्यसे चिह्नयसे, अयं त्वं श्लिष्यस आलिङ्ग्यसे, अयं त्वं हृदि अर्प्यसे हृदयोपरि धार्यसे ते तव