पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'८११
अष्टादशः सर्गः


 स्वाङ्गमिति ॥ सा संभोगार्थिने नलाय स्वाङ्ग्ं स्तनादिकं, निजमङ्गमर्पयितुं दातुं किंचिद्वामतां प्रातिकूल्यमेत्य किंचिदङ्गमदत्त्वा, अथानन्तरं तेनैव व्यापारेण रोषितमुत्पादितरोषमौदासीन्यं प्राप्तं प्रियं नलं चुम्बनालिङ्गनाचरणपतनादिनाऽनुनीय प्रसादानन्तरमियं मां प्रसादयति चेत्तर्हि मदीप्सितं करिष्यतीति वुद्ध्या पुनरर्थिनं तदङ्गं याचमानं तं तदीयां नलीयां हठाद्बलात्कारेण संबुभुक्षुतां संभोगेच्छुताम् आ मर्यादीकृत्य मान्वमन्यत तावन्नानुमेने । पूर्वं याच्ञापूर्वं संभोगे प्रवृत्तः, अनन्तरं तदीयवामत्वाद्रोषवशादौदासीन्यं गतः रञ्रयन्तरं प्रति गमिष्यतीति बुद्ध्या तयाऽनन्तरमनुनीतः सन् पुनरर्थयमानोपि यावद्बलात्संभोगं करोति तावन्नानुमतः, अनन्तरं त्वनुमत इत्यर्थः । याच्ञानन्तरमेवानुमनने तादृशोऽनुरागो न वर्धते । तदीयमनुरागमात्मनि परां कोटिं प्रापयितुं हठसंभोगमेवैच्छदिति भावः । अनुनयानन्तरं संभोगे कृतेऽप्यनुरागातिशयात्पुनः सुरताभिलाषिणं नानुमेन इति पुनःशब्दार्थों वा । रोषितं ण्यन्तानिष्ठा । आतदीयेति मर्यादायामव्ययीभावो नपुंसकत्वाद्ध्रस्वत्वम् ॥

आद्यसंगमसमादराण्यधाद्वल्लभाय ददती कथंचन ।
अङ्गकानि धनमानवामताव्रीडलम्भितदुरापतानि सा ॥८२॥

 आद्येति ॥ सा अङ्गकानि ह्रस्वानि सौकुमार्यातिशयादनुकम्प्यानि निजान्यङ्गान्याद्यसंगमेन प्रथमसंभोगेन समस्तुल्य आद्रः प्राप्त्युपायासक्तिर्येषु प्रथमसंभोगे भयलज्जत्यागपूर्वं विश्वासार्थं यावान् प्रतारणाद्युपायः कृतः, तावानेव पाश्चात्येष्वपि संभो- गेषु यत्प्राप्तये नलेनोपायः कृतः, तादृशीं नीतिं यावदधाद्दधार । यतः--वल्लभायातिप्रेयसे नलाय कथंचन भूयसा प्रयासेन तान्येव ददती । तत्रापि हेतु:--यत:--घनैर्दृढार्मानवामताव्रीडैः मानः प्रीतिकलहजोदासीनता, वामता स्वाङ्गसमर्पणप्रातिकूल्यम् , व्रीडो लज्जा, तैः, घनेन मानेन या वामता तया लज्जया च, लम्भिता प्रापिता दुरापता दुर्लभता येषां तानि । आदौ विवाहात्पूर्व यः संगमस्तत्कालीनेनादरेण तुल्यादराणीति वा। मानादिना तदङ्गानां दुष्प्रापत्वादिच्छाविवृद्धेर्नलीयोऽनुरागः प्रत्यहं परां कोटिमध्यारोहदिति भावः । अङ्गकानि 'ह्रस्वे' 'अनुकम्पायाम्' इति वा कन् । वामतायुक्तो व्रीड इति समासः॥

पत्युरागिरिशमातरु क्रमात्स्वस्य चागिरिजमालतं वपुः ।
तस्य चार्हमखिलं पतिव्रता क्रीडति स्म तपसा विधाय सा ॥८३॥

 पत्युरिति ॥ सा पतिव्रता धर्मेण कार्य कारणे (उ)पचारात्तपसा तपःफलेनेन्द्रादिवरदानेन वा पत्युर्नलस्य वपुरागिरिशं हरमारभ्य आतरु वृक्षपर्यन्तं, तरुमारभ्य गिरिशपर्यन्तं वा (तं), तथा-स्वस्य चात्मनः शरीरमागिरिजं गिरिजां पार्वतीमारभ्य आलतं लतापर्यन्तम् , लतामारभ्य पार्वतीपर्यन्तं वारो (हावरो) हक्रमेण प्रथमं प्रियस्य, पश्चादात्मन इत्येवंरूपेण, गिरिशरूपे गिरिजारूपं, तरुरूपे लतारूपमित्येवं वा क्रमेण विधाय तत्तद्रूपं विरचय्य तस्यावलम्बितशरीरान्तरस्य संबन्ध्यखिलं यद्भाषादि क्रीडादि