पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०६
नैषधीयचरिते


नतीरिच्छुरभिलाषुकोस्मीति । स्मिंत इति भैमीसंबोधनं वा । रात्रिकृतबन्धरतप्रत्यभिज्ञानं यथा भवति वीक्षणमात्रेणेङ्गितं कृत्वाऽनुरागातिशयाहिनेपि स्वीयं तादृशताभिलाषं तां प्रति ज्ञापितवानिति भावः । यद्वा-वाह्नादेस्ताः प्रसिद्धाः क्रमेण बन्धश्च, गन्धश्च, रतं च, संगतं च, आनतिश्च, ताः । बाह्वोर्नागपाशादिबन्धः, वक्रस्य गन्धः पद्मिनीत्वात्सौरभम् , जघनस्य रतम्, स्तनयोः संगतं श्लेषः, चरणयोः पतनमानतिश्चेत्यर्थः । त्वत्संबन्धिनीस्ताः स्वस्वव्यापारकरणमात्रनिरता दुश्चित्ता जना यत्रैवंभूते दिनेऽपि इच्छुरस्मीति वीक्षिता साऽनेन स्वाशयं ज्ञापितेति भावः । यद्वा-त्वां पश्यामि तदैव ममैवं वाञ्छोदेति, त्वदर्शनमेव संभोगसमय इति च ज्ञापितेति भावः । उत्सुकसखीजनेस्मिते व्रीडितेति पाठे-रात्रिवृत्तप्रश्नवाञ्छागोपनार्थ तस्माल्लज्जा मा भूदित्यस्मिते स्मितरहित एवंविधे ज्ञातुमेवोत्सुके सखीजने सखीजनसंनिधौ पूर्वोक्तप्रकारेण सा तेन संकेतिता शब्दिता । यद्रात्रावाचरितं बाहुबन्धादि तदिदानीमिच्छुरस्मीति रात्रिवृत्तज्ञापनार्थं सखीसंनिधावेवमुवाचेत्यर्थः । अत एव सा व्रीडिता । उ- त्सुके सखीजने स्मिते प्रारब्धहास्ये सति व्रीडितेति वा । हे भैमि, ते बाह्वादिबन्धादीन् दिने वीक्षिता द्रष्टा एवंभूतोऽभिलाषुकोऽस्मि । रात्रौ यद्यपि कृताः, तथापि न दृष्टाः तस्माद्दिने तदर्शनेच्छुरस्मीत्येवं सा तेन शब्दिता । न परमहमेव, किंतु त्वत्सखीजनोपीत्युत्सुकपदेन सूचितमिति वा । व्याख्यानान्तरं ग्रन्थगौरवभयान्नोक्तम् । नतीरित्यत्र इच्छुर्वीक्षितेत्येताभ्यां योगे 'न लोका' इति षष्ठीनिषेधः॥

प्रातरात्मशयनाद्विनिर्यंतीं संनिरुध्य यदसाध्यमन्यदा ।
तन्मुखार्पणमुखं सुखं भुवो जम्भजित्क्षितिशचीमचीकरत् ॥६६॥

 प्रातरिति ॥ भुवो जम्भजिद्भूमीन्द्रो नलः प्रातरात्मशयनादुत्थाय विनिर्यतीं शीघ्रं बहिनिर्गन्तुकामां संनिरुध्य चेलाञ्चलादौ सम्यग्धृत्वा क्षितिशचीं भूमीन्द्राणीं सुन्दरीं सौभाग्यवतीं चान्यदाऽन्यस्मिन्काले रात्रौ प्रागेव ह्रीभयवशाद्यदसाध्यमप्राप्यं तत्तस्या मुखार्पणं मुखमादिर्यस्य तत्सुखं सुरतमचीकरत् । रात्रिप्रान्तसमये त्वं मदुक्तं चेत्करि ष्यसि तर्हि दुष्करमप्राप्यं तुभ्यं दास्यामि नान्यथेति तां संरुध्यालिङ्गनादि कारितवान् । सा गन्तुकामापि चेदेतदुक्तं न करिष्यामि, तर्ह्ययं गन्तुं न दास्यति, सखीनां चायमत्राग मनसमय इति विचार्य चुम्बनादि दत्त्वा शीघ्रं निर्गतेति भावः । सुखमनायासेनाचीकरदिति क्रियाविशेषणं वा । 'प्रभातप्रहरे पद्मिनी रन्तव्या' इति कामशास्त्रम् । क्षितिशचीमिति 'ह्रक्रोः-' इति कर्मत्वम् ॥

नायकस्य शयनादहर्मुखे निर्गता मुदमुदीक्ष्य सुभ्रुवाम् ।
आत्मना निजनवस्मरोत्सवस्मारिणीयमह्रणीयत स्वयम् ॥ ६७ ॥

 नायकस्येति ॥ अहर्मुखे प्रातर्नायकस्य शयनान्निर्गता इयं भैमी सुभ्रुवां प्रौढानां सुन्दरीणां संख्यादीनां स्वस्वप्राणेशसुरतजनितां मुदमानन्दमुदीक्ष्यात्मनैव निजः स्वीयः नवः स्मरोत्सवः संभोगस्तस्य स्मारिणी स्मरणशीला सती स्वयमेवाह्रणीयत लज्जिता। अनतिप्रौढोत्तमस्त्रीजातिः। शयनान्निर्गता सखीनामोष्ठयावककपोलपत्रवल्लीमार्जनादि