पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०५
अष्टादशः सर्गः

चरत्वादस्त्याश्चर्य यत्र । ततोऽपि-सात्त्विकोत्पत्तेः श्रान्तेश्चास्ति धर्मजलं यत्र।तथा- अस्ति वेपथुर्यत्र । ततः-संभोगे प्रारब्धे भये निवृत्तेऽपि किमन्ते भावीत्यस्ति भीतिर्यत्र । तथा-सुखहेतुत्वादस्ति वाङ्च्छितमभिलाषो यत्र । तथा-लिङ्गक्रमसंमर्दादस्ति सुखं यत्र । समरससुरतावसानसंजातसुखमिति यावत् । ततोऽप्यस्ति पीडनं संभोगावसाने सर्वाङ्गगाढालिङ्गनं यत्र । एवंभूतं प्रथमसंभोगमन्वभूदिति भावः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । 'अस्तिक्षीरादयश्च' इति समासः ॥

ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः ।
तत्तु निस्त्रपमजस्रसंगमाद्रीडमावहति मामकं मनः ॥ ६३ ॥
इत्युपालभत संभुजिक्रियारम्भविघ्नघनलज्जितैर्जिताम् ।
तां तथा स चतुरोऽथ सा यथा त्रप्नुमेव तमनु त्रपामयात् ॥६४॥

 ह्रीति ॥ इतीति । युग्मम् । चतुरः कामकलाकुशलः स नलः संभुजिक्रियायाः सुरतस्यारम्भे विघ्नभूतैर्घनैनिबिडैर्लज्जितैर्लज्जानिर्मितैरङ्गसंकोचादिभिर्जितामतिलज्जितां तामिति पूर्वोक्तप्रकारेणोपालभत । सोल्लुण्ठमूचे । सा भैमी यथा येन प्रकारेणाथोपालम्भनानन्तरं तमनु लक्षीकृत्य त्रप्तुमेव लज्जितुमेव त्रपामयाल्लज्जां प्राप । लज्जागुप्तिविष- येपि लज्जा यथा जायते तथेयमुपालब्धेत्यर्थः । मम लज्जावशादन्यथास्य चेतसि स्फुरितमिति भिया लज्जां विहाय विस्त्रम्भेण तेन सह चिक्रीडेति भावः । इति किम्- हे भैमि, तवेयं वर्तमाना ह्रीर्युक्ता उचितैव । यद्यस्मान्मत्समागमस्तावके मनसि नवो नूतनो जातः । नवसंभोगे हि स्त्रिया लजा युक्तैवेत्यर्थः । तत्प्रसिद्धं विवाहात्पूर्वमप्यजस्रसंगमात्सदास्वप्नसंजातसंभोगवशान्निस्त्रपं निर्लज्जमपि मामकं मनस्तु पुनः व्रीडं लज्जामावहति धारयति यत्, सेयमनौचिती सामर्थ्याल्लभ्योऽर्थः। निर्लज्जस्य लज्जा विरोधादयुक्ता । बहुवास(र)संजातसंगमस्याप्यतिपरिचयालज्जा न युक्तेत्यर्थः । यद्वा लज्जाया औचित्ये कारणान्तरमाह-तुरप्यर्थः । अजस्रसंगमान्निस्रपं मामकमपि मनो लज्जितां त्वां दृष्ट्वा यस्मालज्जते किमु वक्तव्यम् । प्रथमसंभोगे ते मनो लज्जत इति व्याख्या॥

बा[१]हुवक्रजघनस्तनाङ्घ्रीतद्बन्धगन्धरतसंगतानतीः ।
इच्छुरुत्सुकजने दिनेस्मिते वीक्षितेति समकेति तेन सा ॥६५॥

बाह्विति ॥ तेन वीक्षिता सा भैमी इति पूर्वोक्तप्रकारेण समकेति संकेतिता । इति किम्-हे भैमि, उत्सुकाः स्वस्वकार्यसाधनोत्साहवन्तो जना यत्र, रात्रिवृत्ताकर्णनाद्यर्थमुत्सुकः सखीजनो यत्रैवंविधे वा दिने दिवसेऽपि ते संबन्धिनीः बाहू च वक्रं च जधनं च स्तनौ चाङ्घ्री च तस्य बाह्यादेः कामशास्त्रप्रसिद्धा ये बन्धा नागपाशादीनि करणानि तेषां गन्धो लेशो विद्यते यत्र तादृशं रतं तेन संगता मिलिताश्च ता आनतयश्च नितरां नम्रत्वानि कौशलातिशयनिर्मितानवयवनम्रीभावान् । संगता इति पृथग्वा।


  1. अयं श्लोको जीवातौ न व्याख्यातः ।