पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०२
नैषधीयचरिते

नाविलोक्य नलमासितुं स्मरो हीर्न वीक्षि[१] तुमदत्त सुभ्रवः ।
तदृृशः पतिदिशाचलन्नथ वीडिताः समकुचन्मुहुः पथः ॥ ५३॥

 नेति ॥ स्मरः सुभ्रुवो भैम्या नलमविलोक्यासितुं स्थातुं नादत्त । ह्रीश्च तमीक्षितुं नादत्त । यस्मात्, तस्मात्तस्या दृशः कटाक्षविक्षेपा नेत्रव्यापाराः क्रमेण पतिदिशा नलाधिष्ठितदेशमुद्दिश्य वलितग्रीवं वारंवारमचलन् । अथ पश्चादभिमुखं नलनेत्रसंमीलने सत्यनन्तरं ब्रीडिताः सत्यो नलमप्राप्य पथो मार्गादेव मुहुः पुनः समकुचन्परावृत्ताः । कामप्रेरितत्वादीक्षितुमारेभे, लज्जया निषिद्धत्वाच्च तदीक्षणानिवृत्तेति भावः। लज्जाकामयोः समबलत्वाद्भावसंधिः। दृशः व्यापारापेक्षया बहुत्वम् ॥

नानया पतिरनायि नेत्रयोर्लक्ष्यतामपि परोक्षतामपि।
वीक्ष्यते स खलु यद्विलोकने तत्र तत्र नयने ददानया ॥ ५४॥

 नेति ॥ अनया पतिः प्रियो नेत्रयोर्लक्ष्यतां गोचरत्वमपि नानायि, परोक्षतामगोचरत्वमपि न प्रापि । नन्वेकस्य वस्तुनः परोक्षता वा भवेदपरोक्षता वा भवेत् , नतूभयथा, विरोधादित्याशङ्क्योपपादयति-खलु यस्माद्धेतोर्यस्य हारमुकुररत्नस्तम्भादेर्विलोकने सति स नलो वीक्ष्य ते तत्र तत्र हारादिवस्तुनि विषये नयने ददानया प्रेरयन्त्या । मुकुरादेर्विलोकने तत्र तत्र प्रतिबिम्बितो नलोऽनुपलक्षितदर्शनेन दृष्टो मामियं पश्यतीति तेनाशातत्वात्, उद्देश्यतया बिम्बरूपस्तु न दृष्ट इति विषयान्तरविलोकनव्याजेन प्रसङ्गात्संजातदर्शनस्य नलस्योभयरूपताकारेण वैचित्र्यादेकस्यापि विरुद्धोभयरूपसंभवे संस्कारेन्द्रियाभ्यां सहोत्पादनाच्छास्त्रे प्रत्यभिज्ञावत्, लोके च खरतुरगोभयोद्भूतत्वाद्वेसरवञ्च युक्तेत्यर्थः । लज्जावशात्साक्षाद्यद्यपि नापश्यत् , तथापि कामप्रेरितत्वाद्दर्पणा दिद्वाराऽपश्यदिति भावः । वीक्ष्यते स्मेति पाठः सुयोजः । यद्यस्माद्विलोकननिमित्तं तत्र तत्र वस्तुनि नेत्रे ददत्या स वीक्ष्यते स्मैव, तस्माल्लुक्ष्यतां परोक्षतां च नानायीति वा ॥

वासरे विरहनिःसहा निशां कान्सङ्गसमयं समैहत ।
सा ह्रिया निशि पुनर्दिनोदयं वाञ्छति स्म पतिकेलिलज्जिता ॥५५॥

 वासर इति ॥ सा यस्माद्वासरे दिने विरहनिःसहा संभोगविच्छेदं सोढुमशक्ता, तस्मात्कान्तस्य सङ्गसमयं संभोगसमयरूपां निशां समैहत रात्रिः कदा वा समेष्य- तीति । निशि प्राप्तायां पत्युः केलिभिर्नवनवकामक्रीडाभिर्लज्जिता अत एव- -ह्रिया कृत्वा पुनर्दिनोदयं वाञ्छति स्म प्रभातं कदा वा समेष्यतीति । हेतुहेतुमद्भावान्न पौनरुक्त्यम् । सहजया ह्रिया युक्ता ततोपि पतिकेलिभिर्विशेषेण लज्जितेति वाऽपौनरुक्त्यम्।।

तत्करोमि परमभ्युपैषि यन्मा ह्रियं व्रज भियं परित्यज ।
आलिवर्ग इव तेऽहमित्यमूं शश्वदाश्वसनमूचिवान्नलः ॥ ५६ ॥


  1. वीक्षितुमदान्मृगीदृशः' इति जीवातुसंमतः पाठः ।