पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०१
अष्टादशः सर्गः


चकारेति युक्तम् । नह्यनर्घ्यवस्त्वन्यस्मै प्रदते । तेन स हसति स्मेति वा । सितहसितविहसितोपहासाट्टहासप्रकारैर्हास्यरसो भरतेन पञ्चधा निरूपित इति मितहसितयोर्भेदः। 'अणौ यः कर्ता' इति कर्तृसंज्ञानुवादेन कर्मत्वविधानात्संज्ञापूर्वकविधेरनित्यत्वात्परेणेत्यत्र दृशेर्बुद्ध्ध्यर्थत्वाद् ‘गतिबुद्धि-' इति प्राप्तकर्मत्वाभावः॥

वीक्ष्य भीमतनयास्तनद्वयं मग्नहारमणिमुद्रयाङ्कितम् ।
सोढकान्तपरिरम्भगाढता सान्वमायि सुमुखी सखीजनैः॥५०॥

 वीक्ष्यति ॥ सखीजनैः सा सुमुखी सोढा कान्तस्य परिरम्भाणामालिङ्गनानां गाढता दृढपीडनं यया एवंभूताऽन्वमाय्यनुमिता । किं कृत्वा-भीमतनयायाः स्तनद्वयं स्तनद्वये मन्नानां हारमणीनां मुद्रया किंचिद्गम्भीररक्तीभूतस्थानश्रियाऽङ्कितं चिह्नितं वीक्ष्य। स्तनयोर्मग्नहारमणिदर्शनादन्यथानुपपत्त्या गाढालिङ्गनमनया सोढमिति सखीभिर्ज्ञातमित्यर्थः । सुमुखीत्यनेनालिङ्गनसंजातहर्षोऽपि सूचितः॥

याचते स्म परिधापिकाः सखीः सा स्वनीविनिबिडक्रियां यदा।
अन्वमिन्वत तदा विहस्य ता वृतमत्र पतिपाणिचापलम् ॥ ५१ ॥

 याचत इति ॥ सा यदा यस्मिन्समये परिधापयन्तीति परिधापिकाः सखीः स्वनीव्या आत्मीयवस्त्रमेखलाबन्धस्य निबिडक्रियां गाढबन्धनं याचते स्म प्रार्थितवती तदा ताः सख्योऽन्योन्यविलोकनपूर्वं विहस्यात्र नीविबन्धश्लथीकरणार्थं वृत्तं जातं पत्युः पाणिचापलं बलादुन्मोचनव्यापारमन्वमिन्वत अनुमितिविषयान्यथानुपपत्त्यैवं प्रार्थनं युज्यत इति पूर्ववृत्तं निश्चितवत्य इत्यर्थः । याचिर्द्धिकर्मा । अन्वमिन्वत मिनोतिः, स चानुपूर्वो ज्ञानार्थः ॥

कुर्वती निचुलितं ह्रिया कियत्सौहृदाद्विवृतसौरभं कियत् ।
कुड्मलोन्मिषितसूनसेविनीं पद्मिनी जयति सा स्म पद्मिनी ॥५२॥

 कुर्वतीति ॥ कामशास्त्रोक्तलक्षणा पद्मिनी सा भैमी पद्मिनीं कमलिनी जयति स्म किंभूता-कियत्किचिचुम्बनादि स[१]भोगकर्म ह्रिया निचुलितं स्थगितमप्रकटं कुर्वती (तथा-) कियदालिङ्गनादिकं सौहृदाच्चित्तसौख्याद्विवृतं प्रकटितं सौरभं कामशास्त्रोक्तकौशलं यत्र एवंभूतं कुर्वाणा । किंभूतां पद्मिनीम्--कुङ्मलोन्मिषितानि मुकुलान्येव प्रफुल्लानि सूनानि पुष्पाणि सेवते भजत्येवंशीलाम् । अर्धविकसितपुष्पवतीम् । निचुलितं कलिकास्थानीयम्, विवृतसौरभं विकसितपुष्पस्थानीयम् । कियत्कलिकारूपा कियद्विकसितकमला कमलिनीव साभूदित्यर्थः । विवृतं सौरभं मनोज्ञत्वं सौगन्ध्यं वा यस्येति वा ॥


  1. स्थितस्य गत्यन्वेषणमिदम् । वस्तुतस्तु–'स्वे ह्यदर्शयत' इति पाठसत्त्वेन 'अभिवादिदृशोरात्मनेपदे वा' इति विकल्पेन कर्मत्वाभावः । किंच संज्ञाया अनूद्यमानतायामेव 'संज्ञापूर्वको विधिरनित्यः' इत्यङ्गीकारे 'ओर्गुणः' इति धर्मिग्राहकमानविरोधः।