पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
प्रथमः सर्गः

इतीदृशैस्तं विरचय्य वाङ्मयैः सचित्रवैलक्ष्यकृपं नृपं खगः।
दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः॥१३४॥

 इतीति ॥ स खगो हंस इत्यनेन प्रकारेण ईदृशैरेतादृशैरन्यैरपि वाङ्मयैर्वचनैस्तं नृपं राजानं सचित्रवैलक्ष्यकृपं चित्रं च वैलक्ष्यं च कृपा च तत्सहितं विरचय्य विधाय दयासमुद्रे कृपासिन्धौ तस्य नलस्याशये हृदये कारुण्यलक्षणो रसस्तस्यापगा नदीः गिरो वाचोऽतिथीचकार । करुणा वाचस्तमाकर्णयामासेत्यर्थः । पक्षिणो मनुष्यवाक्त्वाद्, हेमपक्षत्वाद्वा चित्रमाश्चर्यम् । स्वनिन्दाश्रवणात्सलज्जत्वम् । तद्दैन्यश्रवणात्कृपा । समुद्रे च रसनद्योऽतिथीभवन्ति । 'आत्मनश्चरिते सम्यग्ज्ञातेऽन्यैर्यस्य जायते । अपत्रपातिमहती स विलक्ष इति स्मृतः॥' विरचय्येति 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । वाङ्मयैरिति 'नित्यं वृद्धशरा-' इति नित्यग्रहणादेकाचो मयट् । 'बहुष्वनियमः' इति कृपाशब्दस्य पूर्वनिपातः । कारुण्येति स्वार्थे ष्यञ् ॥

मदेकपुत्राजननीजरातुरानवप्रसूतिर्वरटा तपस्विनी।
गतिस्तयोरेष जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि न ॥१३५॥

 मदिति ॥ कारुण्यगिरोऽन्यापदेशेन राजानं श्रावयति-जननी मम माता जरातुरा वार्धक्यपीडिता स्वतो जीवितुमसमर्था । तर्हि पुत्रान्तरेण जीविका स्यात् , तदपि नेत्याह-यतो मदेकपुत्रा अहमेवैकः पुत्रो यस्याः सा । तर्हि तव स्त्री स्यात्, नेत्याह-वरटा मम स्त्री नवप्रसूतिर्नवप्रसवा । सापि स्वतो जीवितुमसमर्था । पत्यन्तरेणापि जीविकासंभावितेत्याह-यतः तपस्विनी पतिव्रता, अथ च दीना । एष मल्लक्षणो जनस्तयोर्मातृपत्न्योर्गतिवृत्त्युपायः । यद्वा-मत्त एकः पुत्रो यस्याः सा । अजननी मन्मरणानन्तरमप्रसवित्री । यतो जरातुरा न वृद्धा न । प्रसवसंभावनायामपि पातिव्रत्यादजननी । वप्रे सूतिश्चेष्टा यस्याः । यद्वा-वप्र एव सानुरेव सुतरामूती रक्षणं यस्याः सा । मद्वियोगात्पर्वतभ्रमणं करिष्यतीत्यर्थः । वरटाविशेषणानि । तयोः पुत्रवरटयोः । तं मामर्दयन्पीडयन्मारयन् हे विधे ब्रह्मन्, दैव वा । करुणा दया त्वां न रुणद्धि नावृणोति । न वारयतीत्यर्थः । अहो आश्चर्यम् । एवंविधपीडने हि त्वया सहृदयेन भवितव्यम् । तव देवस्य सतो या नोत्पद्यते, किं पुनर्मनुष्यस्येति करुणोक्तिः। 'हंसस्य योषिद्वरटा' इत्यमरः । अर्दयन्निति चौरादिकादर्दयतेः 'संबोधने च' इति शता । आत्मनेपद्येवेति केचित् । तदा 'गणकृत्यमनित्यम्' इत्यर्दनमर्दस्तद्वन्तं कुर्वन्निति मतुब्लुका वा समाधिः॥

मुहूर्तमात्रं भवनिन्दया दयासखाः सखायः स्रवदश्रवो मम ।
निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः सुतशोकसागरः ॥१३६॥


१ 'अत्रानुप्रासरूपकावलंकारौ' इति साहित्यविद्याधरी । २ 'करुणाम्' इति द्वितीयान्तः पाठः । रुधेर्द्विकर्मकत्वात् त्वां करुणां च इति कर्मद्वयम् । कर्तृगुप्तकोऽयं श्लोकः इति साहित्यविद्याधरी । ३ 'अत्र परिकरालंकारः' इति साहित्यविद्याधरी ।