पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९७
अष्टादशः सर्गः।

स्वामिनेत्यनेनावश्यकर्तव्यतायां सत्यामपीति सूचितम् । गौर्यपि प्रथमसंभोगे हरेणा- र्थिता सत्येवमेवाकरोदिति ध्वनिः॥

ह्रीभराद्विमुखया तया भियं सञ्जितामननुरागशङ्किनि ।
स स्वचेतसि लुलोप संस्मरन्दूत्यकालकलितं तदाशयम् ॥ ३८ ॥

 ह्रीभरादिति ॥ दूत्यकाले कलितं परीक्षितं तदाशयं भैम्यभिप्रायं सम्यग्दृढसंस्का- रतया स्मरणपथारूढं स्मरन्विचारयन्स नलो ह्रीभराद्विमुखया तया विमुखत्वादेवान- नुरागशङ्किनि किमस्या मय्यनुरागो नास्तीति शङ्काशीले स्वचेतसि सञ्जितां जनिता- मनुरागाभावसंभावनां भीतिं लुलोप निरस्यति स्म । दूत्यावसरे मय्यनुरागातिशया- दिन्द्रादीनपि परित्यज्य मदलाभे कृतमरणनिश्चयेयमिदानीमनुरागं न त्यक्ष्यतीति नि- श्चित्य जातां शङ्कां तत्याज । मुग्धा लज्जाभरादेव विमुखीयं नत्वननुरागादिति निश्चिका- येत्यर्थः। तदाशयं शेषत्वाविवक्षया षष्ठ्यभावः ॥

पार्श्वमागमि निजं सहालिभिस्तेन पूर्वमथ सा तयैकया ।
क्वापि तामपि नियुज्य मायिना स्वात्ममात्रसचिवावशेषिता ॥ ३९॥

 पार्श्वमिति ॥ तेन नलेन भयवशादेकाकिनी नलस्य सविधमनागच्छन्ती सा आलि- भिर्भूयसीभिः सह निजं पार्श्वमागमि प्रापिता । भवतीभिरपि किंचित्कालमनया सार्ध- मागन्तव्यमित्यादिष्टाभिस्ताभिस्तां स्वसंनिधिं प्रापितवानित्यर्थः । अथानन्तरं किय- तापि कालेन किंचिद्विश्वासप्राप्ल्यनन्तरमेकयैकाकिन्यैव तया सख्या सह सख्यन्तरप- रिहारेण संनिधिं प्रापिता । अथानन्तरं कियतापि कालेन तामपि सखीं क्वापि गन्धमा- ल्यताम्बूलाद्याहरणे विषयेऽलीकं नियुज्य गन्धाद्यानयेति व्याजात्प्रेष्य यतो मायिना कामशास्त्रोक्तकन्याविस्रम्भणकपटपटुना चतुरेण तेन स्वात्ममात्रो नल एव सचिवः सखा यस्याः स्वसहायैवैकाकिनी अवशेषिता स्वसमीपे स्थापिता । विजनोचितं स्वी- यमिङ्गितमदर्शयत् , तदीयं चापश्यादिति भावः। कन्याविस्रम्भणप्रकारोयम् । आगमि ण्यन्तात्कर्मणि चिण् (वि[१]भाषा) चिण्णमुलोः-' इति दीर्घविकल्पात्पक्षे ह्रस्वः ॥

संनिधावपि निजे निवेशितामालिभिः कुसुमशस्त्रशास्त्रवित् ।
आनयद्व्यवधिमानिव प्रियामङ्कपालिवलयेन संनिधिम् ॥ ४०॥

 संनिधाविति ॥ स नल आलिभिः स्वयमेव निजे संनिधौ निवेशितां तेनैव प्रयोज- केन स्वसमीपे प्रयोज्याभिः सखीभिः स्थापितामपि प्रियामङ्कपालेर्भैमीपृष्ठभागस्पर्शिनः स्वीयैकभुजालिङ्गनविशेषस्य वलयाकारेण वेष्टनेन कृत्वा संनिधिमानयत् । यतः-कु- सुमशस्त्रः कामस्तस्य वात्स्यायनादिप्रणीतं शास्त्रं वेत्तीति वित् । उत्प्रेक्षते-व्यवधिमा- निव दूरस्थो यथा प्रियां संनिधिमानयति । कामशास्त्रे-'आदौ रतं बाह्यमिह प्रयोज्यं


  1. बहुत्रोपलभ्यमानमपि विभाषापदमत्र प्रक्षिप्तम् । 'विभाषा चिण्णमुलोः' इति सूत्रस्य नुम्विधायकत्वेन दीर्घविधायकत्वाभावात् । तस्मात् 'चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' इति सूत्रं बोध्यम् ॥