पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९३
अष्टादशः सर्गः।

भागे चित्रगाश्चित्रे लिखिता वर्तन्ते । किंभूताः-करलभ्यं पारं परतीरं यस्य तद्भाव- स्तत्ता तां नीतमेव लक्षणया संनिहितभाविफलत्वात्समाप्तिं प्रापितप्रायमेव । अथ च- संनिहितपरतीरमपि तपोरूपं दुस्तरमर्णवं समुद्रमप्रतीर्यापरिसमाप्यानुत्तीर्य च तपो- विघ्नार्थमिन्द्रेण प्रेषितानामप्सरसां रम्भादीनामत्युच्चकठिनकुचलक्षणानां घटानामव- लम्बनाद्धारणादाधाराद्धेतोः स्थायिनः स्थातुं शक्ताः । कुचमर्दनादिसंभोगकारिण इ- त्यर्थः । योपि प्रतीर्यमाणं समुद्र नद्यादि वा तीरे संनिहितेऽपि श्रान्तिबशादुत्तरीतुम- शक्तः स जलमध्य एव घटादिकमवलम्बनमासाद्य चित्रलिखित इव निश्चलस्तिष्ठति । कुटेति पाठे-'कुटः कोटे घटे गेहे' इति विश्वः ॥


[१]स्वामिना च वहता च तं मया स स्मरः सुरतवर्जनाज्जितः ।
योयमीदृगिति नृत्यते स्म यत्केकिना मुरजनिस्वनैर्घनैः ॥ २७ ॥

 स्वामिनेति ॥ यस्य सौधस्य संबन्धिना केकिना क्रीडामयूरेणेति हेतोर्घनैर्निबिडैर्मुर जस्वनैर्मृदङ्गध्वनिभिः, अथ च-तैरेव मेधैर्नृत्यते स्म । इति किम्-योऽयमादृग्ब्रह्मा- दिवशीकारकारी स महाप्रभावः स्मरः स्वामिना कार्तिकेयेन प्रभुणा च तदीययानत्वेन तं वहता पृष्ठेन धारयता मया मयूरेण च सुरतवर्जनाज्जित इति । चावन्योन्यसमुच्चये । कुमारस्य नैष्ठिकब्रह्मचारित्वान्मयूराणां च वर्षर्तुकामभाजां नेत्रोपान्तरन्ध्रमार्गेण निर्ग- च्छतामश्रुमयशुक्रबिन्दूनां मयूरीमुखग्रहणमात्रेण गर्भसंभूतेर्लिङ्गसंघर्षणरूपरतपरि- त्यागो जयहेतुः । मयूराश्च मेघशब्दभ्रान्त्या मृदङ्गशब्दैर्नृत्यन्ति ॥

यत्र वीक्ष्य नलभीमसंभवे मुह्यतो रतिरतीशयोरपि ।
स्पर्धयेव जयतोर्जयाय ते कामकामरमणीबभूवतुः ॥२८॥

 यत्रेति ॥ यत्र सौधे संभोगपरे नलभीमसंभवे नलभैम्यौ वीक्ष्य मुहतोः सुरताभिला- षिणोः अथ च -भ्रान्ति प्राप्नुवतोः, तथा-जयतोः सर्वोत्कर्षेण वर्तमानयोः अथ च- नलभैम्यौ स्ववशे कुर्वतोः,रतिरतीशयो रतिकामयोः स्पर्धयेव ईर्ष्ययेव जयाय तौ परा- भवितुं ते नलभैम्यौ कामकामरमणीबभूवतुः स्मररती अभूताम् । संभोगयुक्तौ स्त्रीपुंसौ दृष्ट्वाऽन्यावपि स्त्रीपुंसावुद्दीप्तस्मरौ भवत इति तादृशौ भैमीनलौ दृष्ट्वा प्रतिष्ठावशात्तत्र कृतावासौ चेतनौ रतिकामौ संजातसुरतेच्छौ जातो, तथा सौन्दर्यातिशयाद्रतेर्नले काम इति, कामस्य च भैम्यां रतिरिति संजातभ्रमौ च जातौ । एवंभूतावतिशयिता- न्योन्यरागजननाद्वशीकृतभैमीनलौ यत्र मूर्ती रतिकामावेवाभूतामिति रतिकामयोर्द्ध- न्द्वद्वयं जातमित्यर्थः । अयमेव च तयोर्जयः। अथ च-स्वसंभोगदर्शनात्तयोरपि संभो- गवाञ्छोत्पादनाज्जयः । तज्जयार्थं बुद्धिपूर्वव्यापाराभावात्स्पर्धयेवेत्युत्प्रेक्षा । स्पर्धाका- रणं तूक्तम् । अथ च-रतिकामसंनिधाने यथा स्त्रीपुंसयोः संभोगवाञ्छासमुदय:, त- थाऽनयोरपि रतिकामसंनिधानमेव प्रेमरसातिशयादन्योन्यसंनिधानमात्रेणैव कामसं- मोहः प्रादुरासीदिति भावः । नलभैम्यौ दृष्ट्वा मोहं भजतोः, अतएव नलभैमीभ्यामावां


  1. अयं श्लोको जीवातौ न व्याख्यातः ।