पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते


नितो य उद्धृत्तभावो गुरुतल्पगामित्वादाचारत्यागित्वं, चन्द्रतारयोर्विषये स्मरस्योद्वृत्तभावः कामजनितसामर्थ्यातिशयस्तल्लक्षणं वा, इतिवृत्तं पुरावृत्तमाश्रिताः प्रतिपादयन्त्यः, तथा भरतेन मुनिना प्रणीता भारती भरताख्यो नाट्यवेदस्तस्मिन्सुधा अमृतरूपाः । भरतोक्तनाट्यरीत्याऽभिनीयमानाः सत्यः सुधाप्राया इति यावत् । एवंभूता नाटिका दशरूपकान्तर्गतचतुरङ्कबन्धविशेषा यस्य सौधस्याजिरेऽङ्गणेऽभिनीतिभिः सात्त्विकाङ्गिकवाचिकाहार्यभेदभिन्नैश्चतुर्विधैर्नटामिनीयमानैरभिनयैः कृत्वा रेजिरे । तयोः स्मरोद्धत्तभावस्य मितिः सम्यक्परिच्छित्तिः सैव वृत्तं व्यापारोऽतीतं वा प्रमेयं यत्रैवंविधनाटकादिप्रबन्धमाश्रिता इति वा ॥

शंभुदारुवनसंभुजिक्रियामाधवव्रजवधूविलासयोः ।
गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् ॥ २४ ॥

 शंभ्विति ॥ यस्य सौधस्य हाटकविटङ्कं सुवर्णघटितकपोतपालिका शंभोर्दारुवने मन्दरकन्दरायां देवदारुवने गौर्या सह दिव्यसहस्रवर्षपर्यन्तं या सुरतक्रीडा, माधवस्य श्रीकृष्णस्य नजवधूभिर्गोपिकाभिः सह विलासो रासक्रीडादिः, तयोर्विषय उशनसा शुक्राचार्येण गुम्फितैः श्लोकरूपेण ग्रथितैः सुभाषितैरतिचमत्कारकारिनवीनार्थशब्दविशेषैः करणैः कर्तृभिर्वाऽङ्कितं चिह्नितम् । हरकृष्णकामविलासवर्णककाव्यरचितकाव्यश्लोकाः कामोद्दीपनार्थ यदीयहाटकविटङ्के टङ्कैरुट्टङ्किता इत्यर्थः । 'कपोतपालिकायां तु विटङ्क पुनपुंसकम्' इत्यमरः । विशेषेण टङ्क्यते वध्यत इति विटङ्क पक्षिविश्रमार्थं कुट्याबहिर्निगतं दारु ॥

अह्नि भानुभुवि दाशदारिकां यच्चरः परिचरन्तमुज्जगौ।
कालदेशविषयासहात्स्मरादुत्सुकं शुकपितामहं शुकः ॥ २५ ॥

 अह्नीति ॥ यस्मिन्सौधे चरतीति यच्चरः शुकः पक्षी शुकपितामहं पराशरमुज्जगौ तारस्वरं गायति स्म । किंभूतम्-अह्नि दिने भानुभुवि सूर्यपुत्र्यां यमुनायां विषये दाशदारिकां कैवर्तकुमारीं योजनगन्धां परिचरन्तं संभुञ्जानम् । अत एव-यथाक्रम कालस्य रात्र्यादेरनिषिद्धस्य, देशस्य तीर्थदेवस्थानादिव्यक्तिरिक्तस्यानिषिद्धस्य निजशयनागारादेः, विषयस्य परदारादिव्यतिरिक्तस्य स्वभार्यालक्षणस्य, असहात्कालादीनसहमानादधैर्यजनकात्स्मराद्धेतोरुत्सुकं कामातिरेकं सोढुसमर्थमित्यर्थः । पौराणिककथ्यमानभारतादिकथाश्रवणमात्रेण प्राज्ञः शिक्षातिशयादतिमुखरो यद्विहारी कीरस्तादृशीं भारताद्युक्तां कथामुच्चैरनूदितवानिति भावः । अह्रीत्यादिनां कामातुरस्य कालाद्यसहनत्वं समर्थितम् । अन्योपि साधुरेवंभूतं स्वपितामहमपि निन्दति । 'कैवर्ते दाशधीवरौ' इत्यमरः । यच्चरः, अधिकरणे 'चरेष्टः' ॥

नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् ।
अप्सरःकुचघटावलम्बनात्स्थायिनः क्वचन यत्र चित्रगाः॥२६॥

 नीतमिति ॥ मुनयः परमात्मज्ञानचतुरा ऋषयो यत्र सौधे क्वचन कस्मिन्नपि भित्ति-