पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नषधीयचरिते
७९०

ब्दाभिनेयानि शब्दितानि निशिरात्रौ कपटकुड्यतामलीकभित्तिभ्रमं त्याजितैर्जालकैर्गवाक्षिः कृत्वा अशृणुताम् । दिने रजतादिभित्तीनां मणीनां वा भासा छादितानि जालानि भित्तितुल्यानि भवन्ति, रात्रौ तु रजतादिभित्तीनां तादृशप्रकाशाभावात्त्ताभिरेव कपटकुड्यत्वं त्याजितानि जालरूपेणैव प्रतीयन्ते । ततश्च प्रतिष्ठासामर्थ्यात्सचेतनौ सुरतलोलुपौ रतिस्मरावपि गवाक्षेषु दिवा जातभित्तिभ्रमावुभावपि कुड्यभ्रमेणाविचार्यैव विशङ्कौ यत्र सुरतं चक्रतुः, जालमार्गेण शब्दसंचाराच्च तत्कूजितानि तौ शुश्रुवतुरिति भावः । पुरोधसो मन्त्रप्रभावश्च सूचितः । तण्डुलचूर्णादिमण्डलिप्तं चित्रमयं वस्त्रं कपटकुड्यम् । दिवोष्मप्रवेशभिया गवाक्षेषु चित्रपटा ध्रियन्ते, रात्रौ च पवनागमनार्थमपनीयन्ते, तथा च दिनवद्रात्रावपि कुड्यबुद्ध्या विशङ्कं मणितानि चक्रतुरिति वा । अपवृणोत्याच्छादयतीत्यपवरो गृहगर्भं पचाद्यच् । 'प्रतिकृतिरर्चा पुंसि-' इत्याद्यमरः॥

कृष्णसारमृगशृङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारिणी।
नानिशं त्रुटति यन्मुखे पुरा किन्नरीविकटगीतिझंकृतिः ॥१९॥

 कृष्णेति ॥ कृष्णो वर्णः सारः श्रेष्ठो यस्य तस्य मृगस्य शृङ्गवद्भङ्गुराऽतिवक्रा बहुभङ्गियुक्ता, तथा-स्वादुः श्रुतिमधुरा, अत एव उज्वलाः प्रकाशमानाः शृङ्गारादयो रसास्तेषामुज्वलस्य शृङ्गाररूपस्यैव वा रसस्य एकाऽद्वितीया मुख्या वा सारिणी कृ- त्रिमनदी । शृङ्गाररसपरिपूर्णेत्यर्थः । एवंभूता गाननिपुणानां किंनरीणां विकटा पङ्का- दिसप्तस्वराणामारोहावरोहरीत्या विषमा गीतिर्गानं तस्या झंकृतिर्ध्वनिविशेषः यस्य सौधस्य मुखे पुरोदेशेऽनिशं सर्वदा न त्रुटति कदाचिदपि विच्छिन्ना नाभूत् । भैम्याः सकाशादानकलाशिक्षाहेतोरुच्चतरस्य तस्य सुन्दरे द्वारि आगत्य गन्धर्वकन्या अपि यत्र सर्वदा जगुरिति भावः । वक्रे च शा(गा)नसद्भावाद्यः सर्वदा गायतीवेत्युत्प्रेक्षा च (मुखशब्देन) सूच्यते । अथ च-मृगङ्गवद्वक्रगामिनी, तथा-स्वादूदका, तथा-किंनर्य इव किनर्यो भ्रमर्यः कमलबाहुल्यात्तासां श्रेष्ठा गुञ्जनहुंकृतिर्यस्या एवंविधा विकसत्कमलभ्रमरीमञ्जुगुञ्जनयुता निर्मलजला एका कुल्या यस्य सौधस्य पुरोभागे कदाचिद्रीष्र्तावपि नात्रुटत् । बहुजलैव स्थितेत्यर्थः । एकविंशे सर्गे 'तुङ्गप्रासादवासात्-' इत्यनेन कुल्याया अपि वर्णयिष्यमाणत्वात्प्रकृते सौधवर्णनोपयोगित्वादयमर्थः कविना विवक्षित इति प्रतीयते । 'विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' इति विश्वः । त्रुटति भूते 'पुरि लुङ् चास्मे' इति लट् [१]

भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससंकथाः।
पद्मनन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ॥ २० ॥

 भित्तीति ॥ यत्र सौधे पद्मनन्दनस्य ब्रह्मणः सुतायां सरस्वत्यां रिरंसुता संभोगाभिलापस्तद्रूपममन्दं महत्साहसं अविचार्यकारित्वं तेन हसन्स्वसामर्थ्यदर्पेण सोल्लासो


  1. 'अत्र गीतिझंकृतेः शृङ्गाररसस्मरणीयत्वेन रूपणाद्रूपकालंकारः-' इति जीवातुः।