पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८४
नैषधीयचरिते

 सोयमिति ॥ सर्गसंगतिरुक्तैव । सोऽयमुक्तसौन्दर्यादिगुणप्रभावो नल इत्थमुक्तप्रकारेण त्रैलोक्यनायकसमक्षं दारसारं स्त्रीरत्नभूतां तामिन्द्रादिभिरप्यभिलष्यमाणां भीमनन्दिनीमधिगम्य तृतीयपुरुषार्थवारिधेः कामरूपदुरवगाहजलधेःसंबन्धिनीं पारलम्भनतरीं परतीरप्रापणनौकारूपां तां भैमीमरीरमद्रामयामास । तादृश्या विना कामपुरुषार्थपारं कामशास्त्रोक्तनानारतपारं न प्राप्यत इत्यनेन सौन्दर्यातिशयः सूचितः। अन्यापि तरी वारिधेः पारं प्रापयति । 'तारणतरीम्' इत्यपि पाठः । अरीरमद्रमेय॑न्तालुङि चङि सन्वद्भावादि[१]त्वादि ॥

अनुरागातिशयादहोरात्रं तत्संभोगे दोषमाशय परिहरति--

आत्मविसह तया दिवानिशं भोगभागपि न पापमाप सः।
आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥२॥

 आत्मविदिति ॥ स नलस्तया सह दिवानिशं भोगभाक् सन्नपि दिवामैथुननिषेधातिक्रमजनितं पापं नाप । यतः-आत्मविज्जीवब्रह्माभेदबुद्धिसाच. । उक्तमर्थं युक्त्यन्तरेण द्रढयति-हि यस्मादाहृता कृत्रिमा विषयैकतानता न विषयपरता ज्ञानेन परमात्मज्ञानेन धौतं क्षालितं कामक्रोधादिमलिनं मन षं न लिम्पति पापसंस्पर्शिनं न करोति । स्वाभाविकी हि विषयपरता ., परमात्मज्ञानवतश्च सा न भवति । किंतु भोगात्पूर्वकर्मक्षयार्थमेव साग..यपरतामङ्गीकरोति। आहार्या विषयपरता ब्रह्मज्ञानिनं पापिनं न करोतीत्याटलत्स पापं नापेति युक्तमेवोक्तमित्यर्थः । विषयपरताया आहार्यत्वे दोषाभावाद्दिवारानं तया सह चिक्रीडेत्यर्थः । दिवानिशम्, अत्यन्तसंयोगे द्वितीया[२]

 दिवानिशं भोगे राज्यरक्षणं कथं जातमित्यत आह-

न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः ।
नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥३॥

 न्यस्येति ॥ स नलो मन्त्रिषु राज्यं न्यस्य नैकवर्णमणिकुट्टिमे नानावर्णरत्नसमूहबद्धभूमिके, तथा हेमभूमिभृति सुवर्णभूमिधारिणि सौधभूधरे प्रासादरूपात्युच्चे पर्वते प्रियासखः सन् मदनमादरादासक्तया आरराध सिषेवे। प्रियासख इत्यालम्बनविभावः, कामस्य धर्मविषयत्वं च प्रस्तौति । नैकवर्णेत्यादिविशेषणसामर्थ्याभूधरो हेमाद्रिः सौधभुवं धरति । नलप्रासादाकारेण परिणतेऽनेकवर्णमणिकुट्टिमे हेम्नः सुवर्णस्य भूमिभृति पर्वते हेमाद्रौ प्रासादसौन्दर्यमुच्चत्वं च सूचितम् । इत आरभ्य 'तत्र सौध-' इति यावन्महाकुलकम्॥

वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः ॥
कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः ॥ ४ ॥


  1. अस्मिन्सर्गे रथोद्धतावृत्तम्-इति जीवातुः।
  2. सामान्येनविशेषसमर्थनरूपोऽर्थान्तरन्यासः । इति जीवातुः।