स्फार इति ॥ स्फारे विशालतरे तादृशि उक्तप्रकारेण धर्मबहुले स्फारत्वेपि सर्वत्र
धर्मपूर्णे वैरसेनिनलस्तस्य नगरे प्रजानां पुण्यैर्हेतुभिर्घनं भूयांसं विघ्नं लब्धवतः प्राप्तवतो निराश्रयस्य कलेस्तस्मिन्नलोद्याने चिराद्बहुकालं नलदोषगवेषणार्थमुपनतिरवस्थितिः किलाभूत् । किलेति पुराणादौ श्रूयत इत्यर्थः । प्रजानां पुण्यैः स्फारे व्याप्त इति
वा हेतुगर्भं विशेषणम् । एतस्मिन्नन्तरेऽवसरे पुनरन्योन्ययोग्यमेलनादन्तर्मनस्यमितानन्दः प्राप्तनिःसीमहर्षः स प्रसिद्धप्रभावः स्मरो भैमीनलावाराद्धं सेवितुं सुतरां पीडयितुं वा धनुः श्रुतिशिखा कर्णोर्ध्वदेशस्तां वन्दारुः स्पर्शिनी चूडा अग्रभागो यस्यैवंविधमाकर्णपूर्णं व्यधित चकार भैमीनलौ नगरं प्राप्तौ सुरेषु स्वर्गतेषु, कलौ च वनालम्बिनि सतीतरेतरानुरागातिशयेन चिरविरहिणाविव सस्पृहौ स्मराराधनं चक्रतुरिति
भावः । अनेनोत्तरसर्गे संभोगारम्भवर्णनरूपा संगतिः सूचिता। कलिकर्तृकपराभवस्य
भविष्यत्त्वान्नायकापकर्षस्यावर्णनीयत्वाच्च स नोक्तः॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं |
श्रीहर्षमिति ॥ एककर्तृकत्वात्स्वसुर्भगिन्याश्छिन्दस्य राजविशेषस्य प्रशस्तेर्वर्णनाग्रन्थस्य सुसदृशि तत्तुल्ये तद्भुवि श्रीहर्षरचिते सप्तदशानां पूरणः स्वभावसुन्दरः सर्गः समाप्तः। छिन्दप्रशस्तिरपि ग्रन्थो मया कृत इति सूचितम् । सोदर्याश्च तुल्या भवन्ति। 'छन्दःप्रशस्तेः' इति पाठे-छन्दोबन्धक्रमस्वरूपनिरूपणपरस्य ग्रन्थस्येत्यर्थः । सप्तदश इतिं 'तस्य पूरणे-' इति डट् । तद्भुवि भाषितपुंस्कम् ॥
इति [१] श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणविरचिते नैषधीयप्रकाशे सप्तदशः सर्गः॥
अष्टादशः सर्गः।
सोयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः । |