पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८२
नैषधीयचरिते


ग्रत्) कलिसंबन्धोऽप्यभूदित्येतावन्मात्रेण श्लेषमात्रेण वौपम्यम् । नलच्छलनार्थं, नलदोषान्वेषणार्थं च जागरूकः स कलिस्तत्रावात्सीदित्यर्थः॥

 एवं कलेरवस्थानं निरूप्य द्वापरस्यावस्थानमाह-

दोषं नलस्य जिज्ञासुर्बभ्राम द्वापरः क्षितौ ।
अदोषः कोपि लोकस्य मुखेस्तीति दुराशया ॥ २१९ ॥

 दोषमिति ॥ लोकापवादरूपमभिशस्तिरूपं वा नलस्य दोषं जिज्ञासुर्द्वापर इत्यघटमानया दुराशया क्षितौ बभ्राम । इति किम्-लोकस्य मुखे जनवार्तायामदोषो दोषरहितः कोपि नरो नास्ति, सर्वो जनो यं निर्दोषमाह तादृशः पुरुष एव नास्तीति नलस्यापि कंचिद्दोषं कोपि वदिष्यतीति । 'न दोषः' इति पाठे- लोकोक्तावल्योपि दोषो नास्ति, अपितु प्रायेण भविष्यतीति दुराशयेति काक्वा संभावनपरत्वेन व्याख्येयम् । दोषं 'न लोका-' इति षष्ठीनिषेधः॥

अमुष्मिन्नारामे सततनिपतद्दोहदतया
 प्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे ।
असौ बद्धालम्बः कलिरजनि कादम्बविहग-
 च्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः ॥ २२०॥

 अमुष्मिन्निति ॥ असौ कलिः श्यामपक्षहंसजातीयाः कादम्बविहगाः कलहंसाख्याः पक्षिविशेषास्तेषां छदाः पक्षास्तेषां छायायाः कान्तरेभ्यङ्ग उचिता योग्या तैलाभ्यङ्गेनेव स्वसंस्पर्शमात्रेण स्नैग्ध्यातिशयकारिणी श्यामतरा रुचिः कान्तिर्यस्य तस्य भावस्तत्ता तया कृष्णवर्णतया च चन्द्रलाञ्छनमृगः कलङ्कमृगोऽभूत् । किंभूतः-सततं सदा निपतन्निक्षिप्यमाणो धूपादिर्दोहदो यत्र तस्य भावस्तत्ता तयानिशं सदा उन्निद्रैर्विकसितैः प्रसूनैर्मालत्यादिसितपुष्पैः कृत्वोज्ज्वलत्वादानन्ददायित्वाच्चामृतांशोश्चन्द्रस्य प्रतिभटे प्रतिस्पर्धिनि चन्द्रतुल्येऽमुष्मिन्पूर्वोक्त आरामे नलोद्याने बद्धः कृत आलम्बो वासो येन सः । चन्द्रे हि कलङ्केन भवितव्यम् । तत्स्थाने कलिरेवाभूदिति । एतेन नि- दर्दोषे नलोद्याने कलिरेव दूषकोऽभूदित्युक्तम् । तत्र न्यवात्सीदित्यर्थः । पुष्पफलानामाकालिकसमृद्धये वृक्षेषु वृक्षायुर्वेदोक्तो धूपादिर्दोहदः क्रियते । यथा-चम्पके पिण्या- कादिजलक्षेपः, बकुले सुन्दरीगण्डूषजलमदिरासेकः, रक्ताशोके च तरुणीचरणप्रताडन- मित्यादिः॥

स्फारे तादृशि वैरसेनिनगरे पुण्यैः प्रजानां धनं
 विघ्नं लब्धवतश्चिरादुपनतिस्तस्मिन्किलाभूत्कलेः।
एतस्मिन्पुनरन्तरेऽन्तरमितानन्दः स भैमीनला-
 वाराद्धुं व्यधित स्मरः श्रुतिशिखावन्दारुचूडं धनुः ॥२२१॥